Loading data... On slow networks this could take a few minutes.
100%

किमवेक्ष्य फलं पयोधरा-
न्ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः
सहते नान्यसमुन्नतिं यया ॥

अन्वयः AI मृगाधिपः किं फलं अवेक्ष्य ध्वनतः पयोधरान् प्रार्थयते? सा खलु महीयसः प्रकृतिः यया (सः) अन्यसमुन्नतिं न सहते ।
English Summary AI What gain does a lion expect when it roars back at the thundering clouds? Indeed, it is the nature of the great, by which they cannot tolerate the eminence of another.
सारांश AI सिंह गरजते हुए बादलों से किसी फल की अपेक्षा न करते हुए भी उनकी गर्जना को सहन नहीं करता है। वास्तव में तेजस्वी स्वभाव वाले महापुरुषों की यह प्रकृति होती है कि वे दूसरों की उन्नति को सहन नहीं कर पाते।
घण्टापथव्याख्या (मल्लिनाथः) किमिति ॥ मृगाधिपः सिंहः किं फलं प्रयोजनमपेक्ष्य ध्वनतो गर्जतः । धरन्तीति धराः । पचाद्यच् । पयसां धरास्तान्पयोधरान्मेघान्प्रार्थयतेऽभियाति।‘याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः इति केशवः । यद्वावरुणद्धीत्यर्थः । प्रा अर्थयते। ‘प्रा स्याद्याच्ञावरोधयोः इत्यभिधानात्प्रा अवरोधेन।प्रा इति तृतीयान्तम्।आकारान्तस्य प्राशब्दस्य योगविभागात् आतो धातोः (अष्टाध्यायी ६.४.१४० ) इत्यालोपः। तथाहि । महीयसो महत्तरस्य सा प्रकृतिः खलु यया प्रकृत्यान्यसमुन्नतिं परवृद्धिं न सहते। महतः परभञ्जनमेव पुरुषार्थ इत्यर्थः । पूर्ववदलंकारः ॥ निगमयति—-उक्तार्थोपसंहरणं निगम उच्यते ॥
पदच्छेदः AI
किम्किम् (२.१) what
अवेक्ष्यअवेक्ष्य (अव√ईक्ष्+ल्यप्) expecting
फलम्फल (२.१) fruit
पयोधरान्पयोधर (२.३) clouds
ध्वनतःध्वनत् (√ध्वन्+शतृ, २.३) thundering
प्रार्थयतेप्रार्थयते (प्र√अर्थ् कर्तरि लट् (आत्मने.) प्र.पु. एक.) challenges
मृगाधिपःमृगअधिप (१.१) the lion
प्रकृतिःप्रकृति (१.१) nature
खलुखलु indeed
सातद् (१.१) that
महीयसःमहीयस् (६.१) of a great one
सहतेसहते (√सह् कर्तरि लट् (आत्मने.) प्र.पु. एक.) tolerates
not
अन्यसमुन्नतिम्अन्यसमुन्नति (२.१) the eminence of another
ययायद् (३.१) by which
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
कि वे क्ष्य लं यो रा
न्ध्व तः प्रा र्थ ते मृ गा धि पः
प्र कृ तिः लु सा ही सः
ते ना न्य मु न्न तिं या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.