विहितां प्रियया मनःप्रिया-
मथ निश्चित्य गिरं गरीयसीम् ।
उपपत्तिमदूर्जिताश्रयं
नृपमूचे वचनं वृकोदरः ॥

सारांश AI द्रौपदी की युक्तिसंगत और गंभीर बातों का समर्थन करते हुए, भीम ने महाराज युधिष्ठिर से तर्कपूर्ण और ओजस्वी वचन कहे।
घण्टापथव्याख्या (मल्लिनाथः) विहितामिति ॥ अथ वृकोदरो भीमः प्रियया द्रौपद्या । प्रियाग्रहणमस्या हितोपदेशतात्पर्यसूचनार्थम् । विहिताम् । अभिहितामित्यर्थः । विपूर्वस्य दधातेः क्रियांसामान्यवाचिनो योग्यविशेषपर्यवसानात् । मनःप्रियामभिमतार्थयोगान्मनोहराम् । विशेषणद्वयेनापि गिरो ग्राह्यत्वमुक्तम् । गिरं गरीयसीं सारवत्तरां निश्चित्यं नृपं धर्मराजमुपपत्तिमद्युक्तियुक्तमूर्जिताश्रयमुदारार्थं वचनमूच उक्तवान् । कर्तरि लिट् । ब्रुवो वचिरादेशः । ब्रुविशासि- इत्यादिना द्विकर्मकत्वम् । अकथितं च (अष्टाध्यायी १.४.५१ ) इति नृपस्य कर्मत्वम् ॥ किं तद्वचनं तदाह
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
वि हि तां प्रि या नः प्रि या
नि श्चि त्य गि रं री सीम्
त्ति दू र्जि ता श्र यं
नृ मू चे नं वृ को रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.