Loading data... On slow networks this could take a few minutes.
100%

अभिमानधनस्य गत्वरै-
रसुभिः स्थास्नु यशश्चिचीषतः ।
अचिरांशुविलासचञ्चला
ननु लक्ष्मीः फलमानुषङ्गिकम् ॥

अन्वयः AI अभिमानधनस्य गत्वरैः असुभिः स्थास्नु यशः चिचीषतः (जनस्य कृते) अचिरांशुविलासचञ्चला लक्ष्मीः ननु आनुषङ्गिकं फलम् (अस्ति) ।
English Summary AI For a person whose wealth is self-respect and who desires to acquire lasting fame with his perishable life, fortune, which is as fickle as a flash of lightning, is surely only an incidental fruit.
सारांश AI जो स्वाभिमानी पुरुष नश्वर प्राणों के बदले शाश्वत यश पाना चाहते हैं, उनके लिए बिजली की तरह चंचल लक्ष्मी तो केवल एक गौण या सहायक फल मात्र है।
घण्टापथव्याख्या (मल्लिनाथः) अभिमानेति ॥ अभिमानधनस्य वैरनिर्यातनमात्रनिष्ठस्य । अतएवगत्वरैर्गमनशीलैरस्थिरैः। गत्वरश्च (अष्टाध्यायी ३.२.१६४ ) इति क्वरवन्तो निपातः । असुभिः प्राणैः करणैः । पुंसि भूस्यसवः प्राणाः इत्यमरः । स्थास्नु स्थिरम् ।ग्लाजिस्थश्च ग्स्नु: इति ग्स्नुप्रत्ययः । यशश्चिचीपतश्चेतुं संग्रहीतुमिच्छतः। चिनोतेः सन्नन्ताच्छतृप्रत्ययः । अचिरमंशवो यस्याः साचिरांशुर्विद्युत्तस्या विलासः स्फुरणं तद्वच्चञ्चला । क्षणिकेत्यर्थः । लक्ष्मीः संपदनुषङ्गादागतमानुषङ्गिकमन्वाचयशिष्टमल्पं फलम् । मानत्राणजं यश एव मुख्यं फलमभ्युच्चयतु लक्ष्मीरिति मानिनामिदमेव श्लाध्यमित्यर्थः। अत्रास्थिरप्राणत्यागेन स्थिरयश:स्वीकाराभिधानान्न्यूनाधिकविनिमयाख्यः परिवृत्त्यलंकारः । तदुक्तं काव्यप्रकाशेपरिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः इति ॥ नन्वल्पस्य मानस्य हेतोः कथं प्राणत्यागः शक्यते कर्तुम्, यतः जीवन्नरो भद्रशतानि पश्येत् इत्याशङ्कयाह
पदच्छेदः AI
अभिमानधनस्यअभिमानधन (६.१) for one whose wealth is self-respect
गत्वरैःगत्वर (३.३) with the perishable
असुभिःअसु (३.३) lives
स्थास्नुस्थास्नु (२.१) lasting
यशःयशस् (२.१) fame
चिचीषतःचिचीषत् (√चि+सन्+शतृ, ६.१) of one who desires to acquire
अचिरांशुविलासचञ्चलाअचिरांशुविलासचञ्चला (१.१) as fickle as a flash of lightning
ननुननु surely
लक्ष्मीःलक्ष्मी (१.१) fortune
फलम्फल (१.१) fruit
आनुषङ्गिकम्आनुषङ्गिक (१.१) incidental
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
भि मा स्य त्व रै
सु भिः स्था स्नु श्चि ची तः
चि रां शु वि ला ञ्च ला
नु क्ष्मीः मा नु ङ्गि कम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.