Loading data... On slow networks this could take a few minutes.
100%

द्विषता विहितं त्वयाथवा
यदि लब्धा पुनरात्मनः पदम् ।
जननाथ तवानुजन्मनां
कृतमाविष्कृतपौरुषैर्भुजैः ॥

अन्वयः AI अथवा जननाथ, यदि द्विषता विहितं पदम् त्वया पुनः लब्धा, (तर्हि) तव अनुजन्मनाम् आविष्कृतपौरुषैः भुजैः किं कृतम्?
English Summary AI Or else, O lord of the people, if you regain your kingdom only when it is granted back by the enemy, what is the use of your younger brothers' arms, whose valor is renowned?
सारांश AI हे राजन! यदि शत्रुओं द्वारा छीना गया राज्य अंततः आपको स्वयं ही प्राप्त करना है, तो आपके इन पराक्रमी अनुजों की भुजाओं के पुरुषार्थ का क्या लाभ?
घण्टापथव्याख्या (मल्लिनाथः) द्विषतेति ॥ अथवा द्विषता विहितं पुनः प्रत्यर्पितमात्मनः पदं राज्यं त्वया लब्धा लप्स्यते यदि । लभेः कर्मणि लट् । हे जननाथ, तवानुजन्मनामनुजानामाविष्कृतपौरुषैः प्रकटितपराक्रमैर्भुजैः कृतमलम् । अस्सद्भुजैर्न किंचित्साध्यमित्यर्थः । राज्यदानादानयोर्द्विषतामेव स्वातन्त्र्येऽस्मद्भुजवैफल्यात् । क्षत्रियस्य विजितव्यम् इति शास्त्रात्क्षात्रेणैव राज्यं ग्राह्यमिति भावः । कृतमिति प्रतिषेधार्थमव्ययं चादिषु पठ्यते कृतमिति निवारणनिषेधयोःइति गणव्याख्याने । भुजैरिति गम्यमानसाधनक्रियापेक्षया करणत्वात्तृतीया । उक्तं च न्यासोद्द्योते-न केवलं श्रूयमाणैव क्रिया निमित्तं कारकमावस्यापि तु गम्यमानापि इति ॥ ननु साम्नैव कार्यसिद्धौ किं क्षात्रेण । यथाह मनुःसाम्ना दानेन भेदेन समस्तैरथवा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥ इति।तत्किमाग्रहेणेत्याशङ्क्याह
पदच्छेदः AI
द्विषताद्विषत् (३.१) by the enemy
विहितम्विहित (वि√धा+क्त, १.१) granted
त्वयायुष्मद् (३.१) by you
अथवाअथवा or else
यदियदि if
लब्धालब्ध (√लभ्+क्त, १.१) is obtained
पुनःपुनर् again
आत्मनःआत्मन् (६.१) your own
पदम्पद (१.१) position
जननाथजननाथ (८.१) O lord of the people
तवयुष्मद् (६.१) your
अनुजन्मनाम्अनुजन्मन् (६.३) of the younger brothers
कृतम्कृत (√कृ+क्त, १.१) what is the use
आविष्कृतपौरुषैःआविष्कृतपौरुष (३.३) by (arms) whose valor is displayed
भुजैःभुज (३.३) by the arms
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
द्वि ता वि हि तं त्व या वा
दि ब्धा पु रा त्म नः दम्
ना वा नु न्म नां
कृ मा वि ष्कृ पौ रु षै र्भु जैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.