Loading data... On slow networks this could take a few minutes.
100%

प्रभवः खलु कोशदण्डयोः
कृतपञ्चाङ्गविनिर्णयो नयः ।
स विधेयपदेषु दक्षतां
नियतिं लोक इवानुरुध्यते ॥

अन्वयः AI कृतपञ्चाङ्गविनिर्णयः नयः खलु कोशदण्डयोः प्रभवः (भवति) । सः विधेयपदेषु दक्षतां लोकः नियतिम् इव अनुरुध्यते ।
English Summary AI Indeed, sound policy, with its five components duly considered, is the source of the treasury and the army. In matters to be accomplished, this policy depends on skillful execution, just as a person's success depends on fate.
सारांश AI कोष और सेना की उन्नति का आधार पाँच अंगों वाली नीति ही है। वह कार्यों की सफलता को उसी प्रकार नियंत्रित करती है जैसे भाग्य संसार को।
घण्टापथव्याख्या (मल्लिनाथः) प्रभवइति । कर्मणामाराम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपातप्रतीकार; कार्यसिद्धिश्चेति पञ्चाङ्गानि । यथाह कामन्दकः-सहायाः साधनोपाया विभागो दे शकालयोः । विनिपातप्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥ इति पञ्चानामङ्गानां विनिर्णयः पञ्चाङ्गविनिर्णयः । तद्धितार्थ- (अष्टाध्यायी २.१.५१ ) इत्यादिनोत्तरपदसमासः । कृतः पञ्चाङ्गविनिर्णयोयस्य येन वा, स तथोक्तः । नयो नीतिः । मन्त्र इति यावत्। कोशोऽर्थराशिः । कोशोऽस्त्री कुङ्मले खड्गपिधानेऽर्थौधदिव्ययोःइत्यमरः (अमरकोशः ३.३.२२९ ) । दण्डश्चतुरङ्गसैन्यम् ।दण्डोऽस्त्री शासने राज्ञां हिंसायां लगुडे यमे। यात्राज्ञायां सैन्यभेदे इति वैजयन्ती । तयोः कोशदण्डयोः । प्रभुशक्तेरित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् ।ऋदोरपू।स नयो विधेयपदेषु कार्यवस्तुषु ।पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु इत्यमरः (अमरकोशः ३.३.१०१ ) । दक्षतां क्षिप्रकारित्वम् । उत्साहमित्यर्थः । लोकः कृष्यादिप्रवृत्तो जनः ।नियतिं दैवमिव । नियतिर्नियमे दैवे इति विश्वः । अनुरुध्यतेऽनुसरति । रुधेर्दैवादिकात्कर्तरि लट् । मन्त्रस्यापि मूलमुत्साहस्तन्मूलायाः प्रभुशक्तेर्मूलमिति किमु वक्तव्यम् । अतः स एवाश्रयणीयः । यतो नक्तंदिवं मन्त्रयतस्तस्यापि प्रभोर्निरुत्साहस्य न किंचित् सिद्ध्यतीति ॥ ननु सोत्साहस्यासहायस्य कथमर्थसिद्धिरित्यत्राहः
पदच्छेदः AI
प्रभवःप्रभव (१.१) the source
खलुखलु indeed
कोशदण्डयोःकोशदण्ड (६.२) of the treasury and the army
कृतपञ्चाङ्गविनिर्णयःकृत (√कृ+क्त)पञ्चअङ्गविनिर्णय (१.१) in which the five limbs of counsel have been ascertained
नयःनय (१.१) policy
सःतद् (१.१) it
विधेयपदेषुविधेयपद (७.३) in matters to be accomplished
दक्षताम्दक्षता (२.१) skill
नियतिम्नियति (२.१) fate
लोकःलोक (१.१) a person
इवइव like
अनुरुध्यतेअनुरुध्यते (अनु√रुध् कर्तरि लट् (आत्मने.) प्र.पु. एक.) depends on
छन्दः वियोगिनी []
छन्दोविश्लेषणम्
१० ११
प्र वः लु को ण्ड योः
कृ ञ्चा ङ्ग वि नि र्ण यो यः
वि धे दे षु क्ष तां
नि तिं लो वा नु रु ध्य ते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.