विधिसमयनियोगाद्दीप्तिसंहारजिह्मं
शिथिलबलमगाधे मग्नमापत्पयोधौ ।
रिपुतिमिरमुदस्योदीयमानं दिनादौ
दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥

सारांश AI जैसे सूर्य अंधकार को मिटाकर पुनः उदित होता है, वैसे ही आप भी शत्रु रूपी अंधकार को नष्ट कर विपत्ति के सागर से निकलकर पुनः राजलक्ष्मी प्राप्त करें।
घण्टापथव्याख्या (मल्लिनाथः) विधीति ॥ विधिर्दैवम् ।विधिर्विधाने दैवे च इत्यमरः (अमरकोशः ३.३.१०७ ) । समयः कालस्तयोर्नियोगान्नियमनाद्धेतोः । तयोर्दुरतिक्रमत्वादिति भावः । अगाधे दुस्तरे। आपत्पयोधिरिवेत्युपमितसमासः । दिनकृतमिवेति वक्ष्यमाणानुसारात्तस्मिन्नापत्पयोधौ मग्न्म् । सूर्योऽपि सायं सागरे मज्जति परेद्युरुन्मज्जतीत्यागमः । दीप्तिः प्रताप आतपश्च तस्याः संहारेण जिह्ममप्रसन्नम्। शिथिलवसुं शिथिलधनम्, अन्यत्र शिथिलरश्मिम् । वसुर्दैवेऽग्नौ रश्मौ च वसु तोये धने मणौ इति वैजयन्ती । शिथिलबलम् इति पाठे तूभयत्रापि शिथिलशक्तिकमित्यर्थः । रिपुस्तिमिरमिवेति रिपुतिमिरमुदस्य निरस्योदीयमानमुद्यन्तम् । ईङ् गतौ इति धातोर्दैवादिकात्कर्तरि शानच् । त्वां दिनादौ दिनकृतमिव लक्ष्मीर्भूयः समभ्येतुं भजतु । आशिषि लिङ्लोटौ (अष्टाध्यायी ३.३.१७३ ) इति लोट् । चमत्कारकारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लोकेषु लक्ष्मीशब्दप्रयोगः । यथाह भगवान्भाष्यकार:-मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषकाण्यायुष्मत्पुरुषकाणि च भवन्त्यध्येतारश्च प्रवक्तारो भवन्ति इति । पूर्णोपमेयम् । मालिनीवृत्तम् । सर्गान्तत्वद्भुत्तभेदः । यथाह दण्डी-सर्गैरनतिविस्तीर्णैः श्राव्यवृत्तैः सुसंधिभिः । सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जकम् ॥ इति ॥
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
वि धि नि यो गा द्दी प्ति सं हा जि ह्मं
शि थि गा धे ग्न मा त्प यो धौ
रि पु ति मि मु स्यो दी मा नं दि ना दौ
दि कृ मि क्ष्मी स्त्वां भ्ये तु भू यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.