Loading data... On slow networks this could take a few minutes.
100%

असंहार्योत्साहं जयिनमुदयं प्राप्य तरसा
धुरं गुर्वीं वोढुं स्थितमनवसादाय जगतः ।
स्वधाम्ना लोकानां तमुपरि कृतस्थानममरा-
स्तपोलक्ष्म्या दीप्तं दिनकृतमिवोच्चैरुपजगुः ॥

अन्वयः AI अमराः, तरसा उदयम् प्राप्य, जगतः अनवसादाय गुर्वीम् धुरम् वोढुम् स्थितम्, असंहार्योत्साहम्, जयिनम्, स्वधाम्ना लोकानाम् उपरि कृतस्थानम्, तपोलक्ष्म्या दीप्तम् तम् (अर्जुनम्) दिनकृतम् इव उच्चैः उपजगुः ।
English Summary AI The gods loudly praised him (Arjuna) as they would the sun. He had forcefully attained prominence, stood ready to bear the heavy burden for the world's preservation, possessed indomitable enthusiasm, was victorious, had established his place above the worlds with his own splendor, and was radiant with the glory of his penance.
सारांश AI अदम्य उत्साह वाले और तपस्या के तेज से सूर्य के समान देदीप्यमान अर्जुन, जो जगत के कल्याण हेतु गुरुतर भार उठाने को तत्पर थे, देवताओं द्वारा उच्च स्वर में स्तुत किए गए।
घण्टापथव्याख्या (मल्लिनाथः) असंहार्योत्साहमिति ॥ तरसा बलेन वेगेन च जयिनं जयशीलमुदयमस्त्रलाभरूपमभ्युदयम् । अन्यत्रोदयाद्रिं च । प्राप्यासंहार्योत्साहं संहर्तुमशक्यमुद्योगं जगतोऽनवसादाय क्षेत्राय गुर्वीं धुरं दुष्टनिग्रहभरं तमोपसंहाररूपं च भार बोढुं स्थितम् । स्वधाम्ना स्वतेजसा लोकानामुपरि कृतस्थानं कृतपदम् । अन्यत्रोपरिवर्तमानम् । तपोलक्ष्म्या दीप्तं तं पाण्डवममरां इन्द्रादयो दिनकृतं सूर्यमिवोच्चैरुपजगुः साधु महाभाग्योऽसीति तुष्टुवुः । शिखरिणीवृत्तम् ॥
पदच्छेदः AI
असंहार्योत्साहम्असंहार्यउत्साह (२.१) him whose enthusiasm was indomitable
जयिनम्जयिन् (२.१) the victorious one
उदयम्उदय (२.१) prominence
प्राप्यप्राप्य (प्र√आप्+ल्यप्) having attained
तरसातरस् (३.१) forcefully
धुरम्धुर् (२.१) the burden
गुर्वीम्गुर्वी (२.१) heavy
वोढुम्वोढुम् (√वह्+तुमुन्) to bear
स्थितम्स्थित (√स्था+क्त, २.१) who stood ready
अनवसादायअवसाद (४.१) for the non-destruction
जगतःजगत् (६.१) of the world
स्वधाम्नास्वधामन् (३.१) with his own splendor
लोकानाम्लोक (६.३) of the worlds
तम्तद् (२.१) him (Arjuna)
उपरिउपरि above
कृतस्थानम्कृतस्थान (२.१) who had made his place
अमराःअमर (१.३) the gods
तपोलक्ष्म्यातपस्लक्ष्मी (३.१) with the glory of his penance
दीप्तम्दीप्त (√दीप्+क्त, २.१) radiant
दिनकृतम्दिनकृत् (२.१) the sun
इवइव like
उच्चैःउच्चैस् loudly
उपजगुःउपजगुः (उप√गै कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) praised
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
सं हा र्यो त्सा हं यि मु यं प्रा प्य सा
धु रं गु र्वीं वो ढुं स्थि सा दा तः
स्व धा म्ना लो का नां मु रि कृ स्था रा
स्त पो क्ष्म्या दी प्तं दि कृ मि वो च्चै रु गुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.