Loading data... On slow networks this could take a few minutes.
100%

इति निगदितवन्तं सूनुमुच्चैर्मघोनः
प्रणतशिरसमीशः सादरं सान्त्वयित्वा ।
ज्वलदनलपरीतं रौद्रमस्त्रं दधानं
धनुरुपपदमस्मै वेदमभ्यादिदेश ॥

अन्वयः AI इति उच्चैः निगदितवन्तम्, प्रणतशिरसम् मघोनः सूनुम् ईशः सादरम् सान्त्वयित्वा, अस्मै ज्वलदनलपरीतम् रौद्रम् अस्त्रम् दधानम् धनुः उपपदम् वेदम् अभ्यादिदेश ।
English Summary AI The son of Maghavan (Arjuna) having thus spoken aloud, bowed his head. The Lord (Shiva), after consoling him respectfully, bestowed upon him the mantra for the formidable Raudra weapon (Pashupatastra), which is surrounded by blazing fire and is accompanied by its bow.
सारांश AI इस प्रकार प्रार्थना करने वाले नतमस्तक अर्जुन को भगवान शिव ने सांत्वना दी और उन्हें प्रज्वलित अग्नि के समान तेजस्वी पाशुपत अस्त्र तथा धनुर्वेद का उपदेश दिया।
घण्टापथव्याख्या (मल्लिनाथः) इतीति ॥ इत्युच्चैर्निगदितवन्तं प्रणतशिरसं मघोनं इन्द्रस्य सूनुमर्जुनमीशो महादेवः सादरं यथा तथा सान्त्वयित्वोपसान्त्व्यास्मा अर्जुनाय ज्वलतानलेन तेजसा परीतं व्याप्तं रौद्रं रुद्रदेवताकं पाशुपतमस्त्रं दधानं धनुरुपपदं धनुःशब्दोपपदं वेदम् । धनुर्वेदमित्यर्थः। अभ्यादिदेश ददौ । अध्यापयामासेत्यर्थः।धनुरुपपदं वेदम् इत्यत्र धनुरुपपदत्वं वेदशब्दस्य न तु संज्ञिनस्तदर्थस्येति संज्ञायाः संज्ञिगतत्वाभावादवाच्यवचनदोषमाहुरालंकारिकाः । तदुक्तम्—यदेवावाच्यवचनमवाच्यवचनं हि तत् इति । समाधानं तु धनुःशब्दविशेषितेन वेदशब्देन । शब्दपरेणेत्यर्थः । परोपदेशयोग्यो धनुर्वेदो लक्ष्यत इति कथंचित्संपाद्यम् ॥
पदच्छेदः AI
इतिइति Thus
निगदितवन्तम्निगदितवत् (नि√गद्+क्तवतु, २.१) the one who had spoken
सूनुम्सूनु (२.१) the son
उच्चैःउच्चैस् aloud
मघोनःमघवन् (६.१) of Maghavan (Indra)
प्रणतशिरसम्प्रणतशिरस् (२.१) the one with bowed head
ईशःईश (१.१) the Lord (Shiva)
सादरम्सादरम् respectfully
सान्त्वयित्वासान्त्वयित्वा (√सान्त्व्+णिच्+क्त्वा) having consoled
ज्वलदनलपरीतम्ज्वलत्अनलपरीत (२.१) surrounded by blazing fire
रौद्रम्रौद्र (२.१) the Raudra
अस्त्रम्अस्त्र (२.१) weapon
दधानम्दधान (√धा+शानच्, २.१) holding/accompanied by
धनुःधनुस् (२.१) the bow
उपपदम्उपपद (२.१) as an accessory
अस्मैइदम् (४.१) to him
वेदम्वेद (२.१) the knowledge (mantra)
अभ्यादिदेशअभ्यादिदेश (अभि+आ√दिश् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) bestowed
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
ति नि दि न्तं सू नु मु च्चै र्म घो नः
प्र शि मी शः सा रं सा न्त्व यि त्वा
ज्व री तं रौ द्र स्त्रं धा नं
नु रु स्मै वे भ्या दि दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.