आस्तिक्यशुद्धमवतः प्रियधर्म धर्मं
धर्मात्मजस्य विहितागसि शत्रुवर्गे ।
सम्प्राप्नुयां विजयमीश यया समृद्ध्या
तां भूतनाथ विभुतां वितराहवेषु ॥

अन्वयः AI प्रियधर्म, ईश, भूतनाथ, धर्मात्मजस्य आस्तिक्यशुद्धम् धर्मम् अवतः (मम), विहितागसि शत्रुवर्गे (सति), यया समृद्ध्या विजयम् सम्प्राप्नुयाम्, ताम् विभुताम् आहवेषु वितर ।
English Summary AI O Lord to whom Dharma is dear, O Lord of beings! As I, the son of Dharma, protect the Dharma purified by faith, while the host of enemies has committed offenses, please grant me in battles that very power and prosperity by which I may obtain victory.
सारांश AI हे प्रियधर्म भूतनाथ! अपराध करने वाले शत्रुओं के विरुद्ध धर्मराज युधिष्ठिर के धर्म की रक्षा हेतु युद्धों में जिस वैभव से मैं विजय प्राप्त कर सकूँ, वह सामर्थ्य मुझे प्रदान करें।
घण्टापथव्याख्या (मल्लिनाथः) आस्तिक्येति ॥ हे प्रियो धर्मो यस्येति प्रियधर्म । समासान्तो विधिरनित्यः इति न समासान्तोऽनिच्प्रत्ययः। परलोके मतिरस्तीत्यास्तिकः पारलौकिकः।अस्तिनास्तिदिष्टम्- इति ठक् । तस्य भाव आस्तिक्यं विश्वासस्तेन शुद्धं विमलं धर्मं वैदिकाचारमवतः पालयतो धर्मात्मजस्य युधिष्ठिरस्य विहितागसि कृतापराधे शत्रुवर्गे विषये । हे ईश, यया समृद्ध्यास्त्रवैभवेन विजयं संप्राप्नुयां भजेयम् । हे भूतनाथ, आहवेषु तां विभुतां विभूतिमस्त्रविद्यां वितर देहि ॥
पदच्छेदः AI
आस्तिक्यशुद्धम्आस्तिक्यशुद्ध (२.१) purified by faith
अवतःअवत् (√अव्+शतृ, ६.१) of the one protecting
प्रियधर्मप्रियधर्म (८.१) O one to whom Dharma is dear
धर्मम्धर्म (२.१) Dharma
धर्मात्मजस्यधर्मआत्मज (६.१) of the son of Dharma
विहितागसिविहितआगस् (७.१) when the offense has been committed
शत्रुवर्गेशत्रुवर्ग (७.१) by the host of enemies
सम्प्राप्नुयाम्सम्प्राप्नुयाम् (सम्+प्र√आप् कर्तरि विधिलिङ् (परस्मै.) उ.पु. एक.) I may obtain
विजयम्विजय (२.१) victory
ईशईश (८.१) O Lord
ययायद् (३.१) by which
समृद्ध्यासमृद्धि (३.१) prosperity
ताम्तद् (२.१) that
भूतनाथभूतनाथ (८.१) O Lord of beings
विभुताम्विभुता (२.१) power
वितरवितर (वि√तॄ कर्तरि लोट् (परस्मै.) म.पु. एक.) grant
आहवेषुआहव (७.३) in battles
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
स्ति क्य शु द्ध तः प्रि र्म र्मं
र्मा त्म स्य वि हि ता सि त्रु र्गे
म्प्रा प्नु यां वि मी या मृ द्ध्या
तां भू ना वि भु तां वि रा वे षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.