Loading data... On slow networks this could take a few minutes.
100%

असंविदानस्य ममेश संविदां
तितिक्षितुं दुश्चरितं त्वमर्हसि ।
विरोध्य मोहात्पुनरभ्युपेयुषां
गतिर्भवानेव दुरात्मनामपि ॥

अन्वयः AI ईश, असंविदानस्य मम दुश्चरितम् तितिक्षितुम् त्वम् अर्हसि । मोहात् विरोध्य पुनः अभ्युपेयुषाम् दुरात्मनाम् अपि भवान् एव गतिः (अस्ति) ।
English Summary AI O Lord! You ought to forgive the misconduct of me, who was ignorant of your true nature. You alone are the refuge even for the evil-minded who, after opposing you out of delusion, approach you again.
सारांश AI हे ईश! अज्ञानवश किए गए मेरे अनुचित व्यवहार को आप क्षमा करें। मोह के कारण विरोध करके पुनः शरण में आने वाले दुरात्माओं के लिए भी आप ही एकमात्र गति हैं।
घण्टापथव्याख्या (मल्लिनाथः) असंविदानस्येति ॥ संविदां ज्ञानानामीश । ईशानः सर्वविद्यानाम् इति श्रुतेरिति भावः। प्रेक्षोपलब्धिश्चित्संवित् इत्यमरः (अमरकोशः १.५.१ ) । असंविदानस्याज्ञानस्य । समो गम्यृच्छि— (अष्टाध्यायी १.३.२९ ) इत्यादिना विदेः संपूवार्दकृमर्काच्छानच्प्रत्ययः । मम दुश्चरितं शस्त्रप्रयोगरूपं दुश्चेष्टितं तितिक्षितुं सोढुम् । तिजेः सन्नन्तात्तुमुन्प्रत्ययः । त्वमर्हसि योग्योऽसि । ननु तव महानपराधः कथं सोढव्यस्तत्राह-विरोध्येति । मोहादज्ञानाद्विरोध्या वैरमुत्पाद्य पुनरभ्युपेयुषां पश्चाच्छरणागतानां दुरात्मनामपि भवानेव गतिः । त्वं हि शरणागतानामपराधं न गणयसीत्यर्थः ॥ संप्रति वरं याचते
पदच्छेदः AI
असंविदानस्यअसंविदान (सम्√विद्+शानच्, ६.१) of the ignorant one
ममअस्मद् (६.१) my
ईशईश (८.१) O Lord
संविदाम्संविद् (६.३) of true knowledge
तितिक्षितुम्तितिक्षितुम् (√तिज्+सन्+तुमुन्) to forgive
दुश्चरितम्दुश्चरित (२.१) misconduct
त्वम्युष्मद् (१.१) you
अर्हसिअर्हसि (√अर्ह् कर्तरि लट् (परस्मै.) म.पु. एक.) ought
विरोध्यविरोध्य (वि√रुध्+ल्यप्) having opposed
मोहात्मोह (५.१) out of delusion
पुनःपुनर् again
अभ्युपेयुषाम्अभ्युपेयिवस् (अभि+उप√इ+क्वसु, ६.३) of those who have approached
गतिःगति (१.१) the refuge
भवान्भवत् (१.१) you
एवएव alone
दुरात्मनाम्दुरात्मन् (६.३) of the evil-minded
अपिअपि even
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
सं वि दा स्य मे सं वि दां
ति ति क्षि तुं दु श्च रि तं त्व र्ह सि
वि रो ध्य मो हा त्पु भ्यु पे यु षां
ति र्भ वा ने दु रा त्म ना पि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.