यः सर्वेषामावरीता वरीया-
न्सर्वैर्भावैर्नावृतोऽनादिनिष्ठः ।
मार्गातीतायेन्द्रियाणां नमस्ते-
ऽविज्ञेयाय व्योमरूपाय तस्मै ॥

अन्वयः AI यः सर्वेषाम् आवरीता, वरीयान्, सर्वैः भावैः न आवृतः, अनादिनिष्ठः (अस्ति), इन्द्रियाणाम् मार्गातीताय, अविज्ञेयाय, व्योमरूपाय तस्मै ते नमः ।
English Summary AI Salutations to you, who are the coverer of all, the most excellent, yet not covered by any existing things, and whose foundation is without beginning. Salutations to him who is beyond the path of the senses, unknowable, and has the form of the sky.
सारांश AI जो सबको आच्छादित करने वाले महान हैं किन्तु स्वयं किसी से आवृत नहीं होते, जो इन्द्रियों की पहुँच से परे और अनादि हैं, उन आकाश रूपी आपको नमस्कार है।
घण्टापथव्याख्या (मल्लिनाथः) य इति ॥ भवेत्यनुवर्तते । भवत्यस्मादयं प्रपञ्च इति भवस्तत्संबुद्धौ । सकलजगज्जनकेति यावत् । वरीयानुरुतरः। विभुरित्यर्थः । प्रियस्थिर- (अष्टाध्यायी ६.४.१५७ ) इत्यादिनोरुशब्दस्य वरादेशः। यस्त्वं सर्वेषां वस्तूनामावरीताच्छादयिता । वृणोतेस्तृच्प्रत्ययः । सर्वैर्भावैः पदार्थैर्नावृतः केनापि कदाचिदप्यनावृतः। स्वयं व्यापकत्वादिति भावः । अविद्यमाने आदिनिष्ठे उत्पत्तिनाशौ यस्यासावनादिनिष्ठो नित्यः। निष्ठानिष्पत्तिनाशान्ताः इत्यमरः । इन्द्रियाणां चक्षुरादीनां मार्गातीतायातीन्द्रियाय । अत एवाविज्ञेयायापरिच्छेद्याय तस्मै व्योमरूपाय ते तुभ्यं नमः ॥
पदच्छेदः AI
यःयद् (१.१) who
सर्वेषाम्सर्व (६.३) of all
आवरीताआवरितृ (आ√वृ+तृच्, १.१) is the coverer
वरीयान्वरीयस् (१.१) the most excellent
सर्वैःसर्व (३.३) by all
भावैःभाव (३.३) beings/states
not
आवृतःआवृत (आ√वृ+क्त, १.१) is covered
अनादिनिष्ठःअनादिनिष्ठा (१.१) whose foundation is without beginning
मार्गातीतायमार्गअतीत (४.१) to the one beyond the path
इन्द्रियाणाम्इन्द्रिय (६.३) of the senses
नमःनमस् salutations
तेयुष्मद् (४.१) to you
अविज्ञेयायअविज्ञेय (वि√ज्ञा+यत्, ४.१) to the unknowable
व्योमरूपायव्योमरूप (४.१) to the one with the form of the sky
तस्मैतद् (४.१) to him
छन्दः शालिनी [११: मततगग]
छन्दोविश्लेषणम्
१० ११
यः र्वे षा मा री ता री या
न्स र्वै र्भा वै र्ना वृ तो ऽना दि नि ष्ठः
मा र्गा ती ता ये न्द्रि या णां स्ते
ऽवि ज्ञे या व्यो रू पा स्मै
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.