Loading data... On slow networks this could take a few minutes.
100%

त्वमन्तकः स्थावरजङ्गमानां
त्वया जगत्प्राणिति देव विश्वम् ।
त्वं योगिनां हेतुफले रुणत्सि
त्वं कारणं कारणकारणानाम् ॥

अन्वयः AI देव, त्वम् स्थावरजङ्गमानाम् अन्तकः (असि) । त्वया विश्वम् जगत् प्राणिति । त्वम् योगिनाम् हेतुफले रुणत्सि । त्वम् कारणकारणानाम् कारणम् (असि) ।
English Summary AI O God, you are the destroyer of all that is stationary and moving. The entire universe lives because of you. You obstruct the cause and effect for the yogis, helping them attain liberation. You are the ultimate cause of all causes.
सारांश AI हे देव! आप ही चराचर जगत के संहारक हैं और आप ही से समस्त संसार जीवन पाता है। आप योगियों के कर्मफलों का निरोध करते हैं और समस्त कारणों के आदि कारण हैं।
घण्टापथव्याख्या (मल्लिनाथः) त्वमिति ॥ हे देव, त्वं स्थावरजङ्गमानामन्तकः संहर्ता । त्वया हेतुना विश्वं सर्वं जगत्प्राणिति जीवति । त्वं योगिनां हेतुः प्रवर्तकं कर्म फलं भोगश्च ते हेतुफले रुणत्सि निवर्तयसि । तेषां त्वमेव बन्धविमोचक इत्यर्थः। किं च । स्वं कारणानि भूतानि तेषां कारणानि भूतसूक्ष्माणि परमाणवो वा तेषां कारणकारणानां कारणं प्रकृत्यादिद्वारोत्पत्तिस्थानम् । अत्र सर्वत्र यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति इतिः श्रुतिः प्रमाणमिति भावः ॥
पदच्छेदः AI
त्वम्युष्मद् (१.१) You
अन्तकःअन्तक (१.१) are the destroyer
स्थावरजङ्गमानाम्स्थावरजङ्गम (६.३) of the stationary and the moving
त्वयायुष्मद् (३.१) by you
जगत्जगत् (१.१) the world
प्राणितिप्राणिति (प्र√अन् कर्तरि लट् (परस्मै.) प्र.पु. एक.) breathes/lives
देवदेव (८.१) O God
विश्वम्विश्व (१.१) entire
त्वम्युष्मद् (१.१) You
योगिनाम्योगिन् (६.३) of the yogis
हेतुफलेहेतुफल (२.२) the cause and effect
रुणत्सिरुणत्सि (√रुध् कर्तरि लट् (परस्मै.) म.पु. एक.) you obstruct
त्वम्युष्मद् (१.१) You
कारणम्कारण (१.१) are the cause
कारणकारणानाम्कारणकारण (६.३) of the causes
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
त्व न्त कः स्था ङ्ग मा नां
त्व या त्प्रा णि ति दे वि श्वम्
त्वं यो गि नां हे तु ले रु त्सि
त्वं का णं का का णा नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.