तवोत्तरीयं करिचर्म साङ्गजं
ज्वलन्मणिः सारशनं महानहिः ।
स्रगास्यपङ्क्तिः शवभस्म चन्दनं
कला हिमांशोश्च समं चकासति ॥

अन्वयः AI तव उत्तरीयम् साङ्गजम् करिचर्म, सारशनम् ज्वलन्मणिः महान् अहिः, स्रक् आस्यपङ्क्तिः, चन्दनम् शवभस्म, हिमांशोः कला च समम् चकासति ।
English Summary AI Your upper garment is the elephant hide with its limbs, your girdle is a great serpent with a shining gem, your garland is a row of skulls, your sandal-paste is funeral ash, and the digit of the moon—all these shine equally on You.
सारांश AI आपके शरीर पर गजचर्म, करधनी के रूप में सर्प और मणि, मुण्डमाला, भस्म और मस्तक पर चन्द्रकला - ये सब परस्पर विरोधी वस्तुएँ एक साथ सुशोभित होकर आपकी शोभा बढ़ाती हैं।
घण्टापथव्याख्या (मल्लिनाथः) तवेति ॥ हे देव, तव साङ्गजं सलोमकं करिचर्मोत्तरीयं संव्यानम् । दुःस्पर्शमिति भावः। संव्यानमुत्तरीयं च इत्यमर । ज्वलन्मणिर्ज्वलद्रत्नो महानहिःसारशनं कटिभूषाविशेषः। योऽन्येषां प्राणहर इत्यर्थः । क्लीबे सारशनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु इत्यमरः (अमरकोशः २.६.११० ) ।आस्यपङ्क्तिः कपालमाला स्त्रङ्माल्यम् । शवभस्म चन्दनम् । उभयत्राप्यस्पृश्यममङ्गलं चेति भावः। किंच। एतानि वस्तूनि हिमांशोः कला च समं तुल्यतया चकासति दीप्यन्ते । त्वदाश्रयवशादरम्यस्यापि रम्यतेति किमशक्यं तवेति भावः ॥
पदच्छेदः AI
तवयुष्मद् (६.१) Your
उत्तरीयम्उत्तरीय (१.१) upper garment
करिचर्मकरिन्चर्मन् (१.१) is elephant hide
साङ्गजम्साङ्गज (१.१) with its limbs
ज्वलन्मणिःज्वलत् (√ज्वल्+शतृ)मणि (१.१) a shining gem
सारशनम्सारशन (१.१) girdle
महान्महत् (१.१) great
अहिःअहि (१.१) serpent
स्रक्स्रज् (१.१) garland
आस्यपङ्क्तिःआस्यपङ्क्ति (१.१) is a row of skulls
शवभस्मशवभस्म (१.१) funeral ash
चन्दनम्चन्दन (१.१) is sandal-paste
कलाकला (१.१) the digit
हिमांशोःहिमांशु (६.१) of the moon
and
समम्समम् equally
चकासतिचकासति (√कास् कर्तरि लट् (परस्मै.) प्र.पु. एक.) shine
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वो त्त री यं रि र्म सा ङ्ग जं
ज्व न्म णिः सा नं हा हिः
स्र गा स्य ङ्क्तिः स्म न्द नं
ला हि मां शो श्च मं का ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.