प्राप्यते यदिह दूरमगत्वा
यत्फलत्यपरलोकगताय ।
तीर्थमस्ति न भवार्णवबाह्यं
सार्वकामिकम् ऋते भवतस्तत् ॥

अन्वयः AI यत् इह दूरम् अगत्वा प्राप्यते, यत् अपरलोकगताय फलति, तत् सार्वकामिकम् तीर्थम् भवतः ऋते भवार्णवबाह्यम् न अस्ति ।
English Summary AI That which is attained here without going far, and which bears fruit for one who has gone to the other world—such a holy place (tīrtha) that grants all desires and is beyond the ocean of worldly existence, does not exist, except for You.
सारांश AI हे देव! आपके अतिरिक्त इस संसार में ऐसा कोई तीर्थ नहीं है, जो बिना श्रम के फल दे, परलोक में भी सहायक हो और समस्त कामनाओं को पूर्ण करने वाला हो।
घण्टापथव्याख्या (मल्लिनाथः) प्राप्यत इति ॥ यत्तीर्थमिहास्मिंल्लोके दूरमगत्वा प्राप्यते। स्मृतिमात्रसुलभमित्यर्थः । गङ्गादिकं तु न तथेति भावः । यत्तीर्थमपरलोकगताय फलति फलं प्रयच्छति । अत्रापि स्मरणमात्रादेवेति भावः। भवः संसारः स एवार्णवस्ततो बाह्यं बहिर्भवं संसारातीतम्। मोक्षपदमित्यर्थः।बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्इति ञ्यप्रत्ययः।सर्वे कामाःप्रयोजनमस्येति सार्वकामिकम् । 'तदस्य प्रयोजनम् (अष्टाध्यायी ५.१.१०९ ) इति ठक् । तत्तादृक्तरन्त्यनेनेति तीर्थं तारकं भवतस्त्वदृते। 'अन्यारात्इत्यादिना पञ्चमी ।अन्यन्नास्ति। औपच्छन्दसिकं वृत्तम् ।
पदच्छेदः AI
प्राप्यतेप्राप्यते (प्र√आप् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is attained
यत्यद् (१.१) that which
इहइह here
दूरम्दूर (२.१) far
अगत्वाअगत्वा (√गम्+क्त्वा) without going
यत्यद् (१.१) which
फलतिफलति (√फल् कर्तरि लट् (परस्मै.) प्र.पु. एक.) bears fruit
अपरलोकगतायअपरलोकगत (√गम्+क्त, ४.१) for one who has gone to the other world
तीर्थम्तीर्थ (१.१) a holy place
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) exists
not
भवार्णवबाह्यम्भवअर्णवबाह्य (१.१) beyond the ocean of worldly existence
सार्वकामिकम्सर्वकाम (१.१) granting all desires
ऋतेऋते except for
भवतःभवत् (५.१) You
तत्तद् (१.१) such
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१० ११
प्रा प्य ते दि दू त्वा
त्फ त्य लो ता
ती र्थ स्ति वा र्ण बा ह्यं
सा र्व का मि मृ ते स्तत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.