सहशरधि निजं तथा कार्मुकं
वपुरतनु तथैव संवर्मितम् ।
निहितमपि तथैव पश्यन्नसिं
वृषभगतिरुपाययौ विस्मयम् ॥

अन्वयः AI वृषभगतिः (अर्जुनः) निजम् कार्मुकम् सहशरधि, अतनु संवर्मितम् वपुः, तथा एव निहितम् असिम् अपि पश्यन् विस्मयम् उपाययौ ।
English Summary AI Arjuna, whose gait was like a bull's, was filled with astonishment as he saw his own bow with its quiver, his large armored body, and his sword placed just as they were before the fight.
सारांश AI अपने धनुष, बाणों के तुणीर, कवचयुक्त विशाल शरीर और अपनी तलवार को पहले की ही तरह पुनः प्राप्त देखकर अर्जुन अत्यंत विस्मित हो गए।
घण्टापथव्याख्या (मल्लिनाथः) सहेति ॥ वृषभस्येव गतिर्यस्य सोऽर्जुनस्तस्मिन्समये सह शरधिभ्यां वर्तत इति सहशरथि सनिषङ्गम् । वोपसर्जनस्य (अष्टाध्यायी ६.३.८२ ) इति विकल्पांत्सहशब्दस्य न सभावः । निजं कार्मुकं गाण्डीवं तथैव पूर्ववदेव संवर्मितं सम्यक्कवचितमतनु महन्निजं वपुस्तथैव निहितं यथापूर्वं स्थापितमसिमपि खङ्गं च तथैव पश्यन्विस्मयमुपाययौ । क्वचित्तु वृषभगतिम् इति पाठ: । तत्र वृषभगतिं शिवं च पश्यन्विस्मयमुपाययावित्यर्थः । प्रमुदितवदना वृत्तम्—प्रमुदितवदना भवेन्नौ ररौ इति लक्षणात् ॥
पदच्छेदः AI
सहशरधिसहशरधि (२.१) with its quiver
निजम्निज (२.१) his own
तथातथा so
कार्मुकम्कार्मुक (२.१) bow
वपुःवपुस् (२.१) body
अतनुअतनु (२.१) large
तथातथा just as
एवएव indeed
संवर्मितम्संवर्मित (सम्√वर्मन्+णिच्+क्त, २.१) armored
निहितम्निहित (नि√धा+क्त, २.१) placed
अपिअपि also
पश्यन्पश्यत् (√दृश्+शतृ, १.१) seeing
असिम्असि (२.१) sword
वृषभगतिःवृषभगति (१.१) he whose gait is like a bull's (Arjuna)
उपाययौउपाययौ (उप+आ√या कर्तरि लिट् (परस्मै.) प्र.पु. एक.) was filled with
विस्मयम्विस्मय (२.१) astonishment
छन्दः प्रमुदितवदना [१२: ननरर]
छन्दोविश्लेषणम्
१० ११ १२
धि नि जं था का र्मु कं
पु नु थै सं र्मि तम्
नि हि पि थै श्य न्न सिं
वृ ति रु पा यौ वि स्म यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.