उन्मज्जन्मकर इवामारापगाया
वेगेन प्रतिमुखमेत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभं भुजाभ्या-
माजघ्ने विषमविलोचनस्य वक्षः ॥

अन्वयः AI गाण्डीवी, अमारापगायाः उन्मज्जत्-मकरः इव, वेगेन बाण-नद्याः प्रतिमुखम् एत्य, भुजाभ्याम् विषम-विलोचनस्य कनक-शिला-निभम् वक्षः आजघ्ने।
English Summary AI The wielder of Gandiva (Arjuna), like a crocodile emerging from the river of the gods (Ganges), swiftly advanced against the river of arrows and struck the gold-rock-like chest of the odd-eyed one (Shiva) with both his arms.
सारांश AI गंगा से निकलते मगरमच्छ की भांति, बाणों की धारा के विपरीत जाकर अर्जुन ने अपनी भुजाओं से शिव के स्वर्णशिला सदृश वक्षस्थल पर प्रहार किया।
घण्टापथव्याख्या (मल्लिनाथः) उन्मज्जन्निति ॥ गाण्डीव्यर्जुन उन्मज्जन्नुत्तरन्मकरो जलग्राहविशेषोऽमरापगाया गङ्गाया इव बाणनद्या बाणप्रवाहाद्वेगेन प्रतिमुखमभिमुखमेत्यागत्य कनकशिलानिभम् । कनकग्रहणं काठिन्यातिशयद्योतनार्थम् । विषमविलोचनस्य त्र्यम्बकस्य वक्षो हृदयं भुजाभ्यामाजघ्ने ताडितवान् । अत्रात्मनेपदं विचार्यम् । आङो यमहनः (अष्टाध्यायी १.३.२८ ) इत्यत्राकर्मकाधिकारात् स्वाङ्गकर्मकाच्च इति वक्तव्यत्वात् । न च शिवस्य प्रतिमुखमित्यन्वयात्कनकशिलानिभं कनकनिकष्रतुल्यं श्यामं स्ववक्ष आजघ्न इत्यर्थ इतिवाच्यमनौचित्याचरणात् । न हि युद्धाय संनद्धा निपुणा अपि मल्लाः स्ववक्षस्ताडनमाचरन्ति । किं तु स्वभुजास्फालनम् । किं च । अनन्तरं वक्ष्यमाणभवकर्तृकाविनयसहनविरोधाद्वक्ष एवेत्यन्वयस्याव्यवधानाच्च पूर्वैरेव दूषितत्वात् । अतो व्याकरणान्तराद्द्रष्टव्यम् । केचित्तु त्र्यम्बकस्य वक्षः प्राप्य इत्यध्याहारं स्वीकृत्याकर्मकत्वादात्मनेपदमाहुः ॥
पदच्छेदः AI
उन्मज्जन्मकरःउन्मज्जत् (उद्√मस्ज्+शतृ)मकर (१.१) an emerging crocodile
इवइव like
अमारापगायाःअमारआपगा (६.१) of the river of the gods (Ganges)
वेगेनवेग (३.१) swiftly
प्रतिमुखम्प्रतिमुखम् against
एत्यएत्य (आ√इ+ल्यप्) having advanced
बाणनद्याःबाणनदी (६.१) of the river of arrows
गाण्डीवीगाण्डीविन् (१.१) the wielder of Gandiva (Arjuna)
कनकशिलानिभम्कनकशिलानिभ (२.१) like a golden rock
भुजाभ्याम्भुज (३.२) with his two arms
आजघ्नेआजघ्ने (आ√हन् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) struck
विषमविलोचनस्यविषमविलोचन (६.१) of the odd-eyed one (Shiva)
वक्षःवक्षस् (२.१) the chest
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
न्म ज्ज न्म वा मा रा गा या
वे गे प्र ति मु मे त्य बा द्याः
गा ण्डी वी शि ला नि भं भु जा भ्या
मा घ्ने वि वि लो स्य क्षः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.