निःशेषं शकलितवल्कलाङ्गसारैः
कुर्वद्भिर्भुवमभितः कषायचित्राम् ।
ईशानः सकुसुमपल्लवैर्नगैस्तै-
रातेने बलिमिव रङ्गदेवताभ्यः ॥

अन्वयः AI ईशानः, निःशेषम् शकलित-वल्कल-अङ्ग-सारैः, भुवम् अभितः कषाय-चित्राम् कुर्वद्भिः, स-कुसुम-पल्लवैः तैः नगैः, रङ्ग-देवताभ्यः बलिम् इव आतेने।
English Summary AI With those trees, complete with their flowers and sprouts, which had their bark and hard wood completely shattered and which stained the earth all around with their reddish sap, Ishana (Shiva) seemed to make an offering to the deities of the battlefield.
सारांश AI शिव ने उन पुष्पित वृक्षों को खंडित कर दिया और छाल एवं काष्ठ के टुकड़ों से पृथ्वी को रंजित करते हुए मानो युद्धभूमि की अधिष्ठात्री देवियों को बलि अर्पित की।
घण्टापथव्याख्या (मल्लिनाथः) निःशेषमिति ॥ ईशानः शिवः । शानच्प्रत्ययः। निःशेषं यथा तथा शकलितानि वल्कलानि त्वचोऽङ्गानि शाखाः सारो मज्जा च येषां तैर्भुवमभितः कषायो यो रागः। स्वरसेन रञ्जनमिति यावत् । रागे क्वाथे कषायोऽस्त्री इति वैजयन्ती । तेन चित्रां विचित्रवर्णां कुर्वद्भिः सकुसुमपल्लवैस्तैर्नगैर्वृक्षै रङ्गे रणरङ्गे या देवतास्ताभ्यो बलिं पूजामिवातेने ॥ उन्मज्जन्मकर इवामरापगाया वेगेन प्रतिमुखमेत्य बाणनद्याः । गाण्डीवी कनकशिलानिभंभुजाभ्यामाजघ्ने विषमविलोचनस्यवक्षः
पदच्छेदः AI
निःशेषम्निःशेषम् completely
शकलितवल्कलाङ्गसारैःशकलितवल्कल–अङ्गसार (३.३) with their bark and hard wood shattered
कुर्वद्भिःकुर्वत् (√कृ+शतृ, ३.३) making
भुवम्भू (२.१) the earth
अभितःअभितः all around
कषायचित्राम्कषायचित्र (२.१) variegated with reddish sap
ईशानःईशान (१.१) Ishana (Shiva)
सकुसुमपल्लवैःकुसुमपल्लव (३.३) with flowers and sprouts
नगैःनग (३.३) with the trees
तैःतद् (३.३) with those
आतेनेआतेने (आ√तन् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) made
बलिम्बलि (२.१) an offering
इवइव as if
रङ्गदेवताभ्यःरङ्गदेवता (४.३) to the deities of the battlefield
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१० ११ १२ १३
निः शे षं लि ल्क ला ङ्ग सा रैः
कु र्व द्भि र्भु भि तः षा चि त्राम्
शा नः कु सु ल्ल वै र्न गै स्तै
रा ते ने लि मि ङ्ग दे ता भ्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.