Loading data... On slow networks this could take a few minutes.
100%

अस्त्रैः समानामतिरेकिणीं वा
पश्यनीषूणामपि तस्य शक्तिम् ।
विषादवक्तव्यबलः प्रमाथी
स्वमाललम्बे बलमिन्दुमौलिः ॥

अन्वयः AI तस्य इषूणाम् अपि अस्त्रैः समानाम् अतिरेकिणीम् वा शक्तिम् पश्यन्, विषादवक्तव्यबलः प्रमाथी इन्दुमौलिः स्वम् बलम् आललम्बे ।
English Summary AI Seeing that the power of his own arrows was equal to or even surpassed divine missiles, the tormenting, moon-crested Shiva, whose strength causes sorrow to his foes, resorted to his innate power.
सारांश AI शिव की शक्ति को अपने अस्त्रों से भी श्रेष्ठ देखकर, निराशा से भरे अर्जुन ने अंततः अपने आंतरिक और स्वाभाविक शौर्य का आश्रय लिया।
घण्टापथव्याख्या (मल्लिनाथः) अस्त्रैरिति ॥ अस्त्रैः स्वायुधैः समानां तुल्यामतिरेकिणीं ततोऽधिकां वा तस्य मुनेरिषूणामपि शक्तिं पश्यन्विषादेनोत्साहभङ्गेन वक्तव्यानि निवाच्यानि बलानि सैन्यानि यस्य स प्रमाथी शत्रुमर्दन इन्दुमौलिर्महादेवः स्वं बलमात्मीयं महिमानमाललम्बे स्वसामर्थ्यमवलम्बितवान् । ततस्तपोवीर्यसमुद्धतस्य पारं यियासोः समरार्णवस्य । महेषुजालान्यखिलानि जिष्णोरर्कः पयांसीव समाचचाम
पदच्छेदः AI
अस्त्रैःअस्त्र (३.३) with divine missiles
समानाम्समान (२.१) equal to
अतिरेकिणीम्अतिरेकिणी (२.१) surpassing
वावा or
पश्यन्पश्यत् (√दृश्+शतृ, १.१) seeing
इषूणाम्इषु (६.३) of the arrows
अपिअपि even
तस्यतद् (६.१) his (Shiva's)
शक्तिम्शक्ति (२.१) the power
विषादवक्तव्यबलःविषादवक्तव्यबल (१.१) he whose strength causes sorrow (to foes)
प्रमाथीप्रमाथिन् (१.१) the tormentor
स्वम्स्व (२.१) his own
आललम्बेआललम्बे (आ√लम्ब् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) resorted to
बलम्बल (२.१) strength
इन्दुमौलिःइन्दुमौलि (१.१) the moon-crested one (Shiva)
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्त्रैः मा ना ति रे कि णीं वा
श्य नी षू णा पि स्य क्तिम्
वि षा क्त व्य लः प्र मा थी
स्व मा म्बे मि न्दु मौ लिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.