अलंकृतानाम् ऋजुतागुणेन
गुरूपदिष्टां गतिमास्थितानाम् ।
सतामिवापर्वणि मार्गणानां
भङ्गः स जिष्णोर्धृतिमुन्ममाथ ॥

अन्वयः AI ऋजुतागुणेन अलंकृतानाम् गुरूपदिष्टाम् गतिम् आस्थितानाम् सताम् इव, अपर्वणि मार्गणानाम् सः भङ्गः जिष्णोः धृतिम् उन्ममाथ ।
English Summary AI That unexpected destruction of his arrows—which, like good people, were adorned with the quality of straightness and followed the path taught by their master (the bow)—violently shook the fortitude of Jishnu (Arjuna).
सारांश AI सीधेपन और गुरु के उपदेश जैसी सही गति वाले उन श्रेष्ठ बाणों का अचानक टूट जाना, सज्जनों के असमय पतन की तरह अर्जुन के धैर्य को विचलित कर गया।
घण्टापथव्याख्या (मल्लिनाथः) अलमिति ॥ ऋजुतावक्राकारत्वमवक्रशीलत्वं च सैव गुणस्तेनालंकृतानां गुरुभिर्धनुर्विद्यागुरुभिर्धर्मशास्त्रगुरुभिश्चोपदिष्ठां दर्शितां गतिं गमनमाचारं चास्थितानां प्राप्तानां मार्गणानां शराणां सतां साधूनामिवापर्वण्यग्रन्थौ । अन्यत्राप्रस्तावे। अकाण्ड इत्यर्थः । पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे लक्षणान्तरे इति विश्वः । स ईश्वरकृतो भङ्गश्छेदो व्यसनं च जिष्णोरर्जुनस्य कस्यचिजित्वरस्य च । जिष्णुः शक्रे धनंजये। जित्वरे इति विश्वः। धृतिं धैर्यमुन्ममाथ ।जहारेत्यर्थः । अकाण्डे साधुविपत्तिदर्शनादिव शरभङ्गदर्शनाद्धैर्यभङ्गोऽभूदित्यर्थः ॥
पदच्छेदः AI
अलंकृतानाम्अलंकृत (अलम्√कृ+क्त, ६.३) of those adorned
ऋजुतागुणेनऋजुतागुण (३.१) by the virtue of straightness
गुरूपदिष्टाम्गुरुउपदिष्ट (२.१) taught by a preceptor
गतिम्गति (२.१) path
आस्थितानाम्आस्थित (आ√स्था+क्त, ६.३) of those who have resorted to
सताम्सत् (६.३) of the good people
इवइव like
अपर्वणिअपर्वन् (७.१) unexpectedly
मार्गणानाम्मार्गण (६.३) of the arrows
भङ्गःभङ्ग (१.१) the breaking
सःतद् (१.१) that
जिष्णोःजिष्णु (६.१) of Jishnu (Arjuna)
धृतिम्धृति (२.१) fortitude
उन्ममाथउन्ममाथ (उद्√मन्थ् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) shook violently
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
लं कृ ता ना मृ जु ता गु णे
गु रू दि ष्टां ति मा स्थि ता नाम्
ता मि वा र्व णि मा र्ग णा नां
ङ्गः जि ष्णो र्धृ ति मु न्म मा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.