Loading data... On slow networks this could take a few minutes.
100%

विस्फार्यमाणस्य ततो भुजाभ्यां
भूतानि भर्त्रा धनुरन्तकस्य ।
भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं
क्रुद्धस्य जिह्वामिव तक्षकस्य ॥

अन्वयः AI ततः अन्तकस्य भर्त्रा भुजाभ्याम् विस्फार्यमाणस्य धनुषः भिन्नाकृतिम् स्फुरन्तीम् ज्याम् भूतानि क्रुद्धस्य तक्षकस्य जिह्वाम् इव ददृशुः ।
English Summary AI Then, the ganas saw the vibrating bowstring of the Destroyer's (Shiva's) bow, as it was being drawn by his two arms, taking on a terrifying form, like the tongue of the enraged serpent-king Takshaka.
सारांश AI उपस्थित प्राणियों ने शिव द्वारा दोनों भुजाओं से खींचे जा रहे धनुष की फड़फड़ाती प्रत्यंचा को क्रोध में भरे तक्षक नाग की लपलपाती हुई जिह्वा के समान डरावना देखा।
घण्टापथव्याख्या (मल्लिनाथः) विस्फार्यमाणस्येति ॥ ततोऽनन्तरं भूतानि भर्त्रा भूतपतिनां । भृञस्तृच्प्रत्ययः। अत एव न लोक— (अष्टाध्यायी २.३.६९ ) इत्यादिना षष्ठीप्रतिषेधः । भुजाभ्याम् । कर्तृकरणयोस्तृतीया । विस्फार्यमाणस्याकृष्यमाणस्य धनुरन्तक इव तस्य धनुरन्तकस्य संबन्धिनीं स्फुरन्तीं चलन्तीमत एव भिन्ना द्विधेव दृश्यमानाकृतिर्यस्यास्तां ज्यां धनुर्गुणं क्रुद्धस्य तक्षकस्य नागविशेषस्य जिह्वामिव ददृशुः। द्विधाभावाद्भयंकरत्वाच्चेति भावः ।
पदच्छेदः AI
विस्फार्यमाणस्यविस्फार्यमाण (वि√स्फुर्+णिच्+शानच्, ६.१) of the one being drawn
ततःततः then
भुजाभ्याम्भुज (३.२) by the two arms
भूतानिभूत (१.३) the beings (ganas)
भर्त्राभर्तृ (३.१) by the lord
धनुःधनुस् (१.१) the bow
अन्तकस्यअन्तक (६.१) of the Destroyer (Shiva)
भिन्नाकृतिम्भिन्नआकृति (२.१) of a terrifying form
ज्याम्ज्या (२.१) the bowstring
ददृशुःददृशुः (√दृश् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) they saw
स्फुरन्तीम्स्फुरत् (√स्फुर्+शतृ, २.१) vibrating
क्रुद्धस्यक्रुद्ध (√क्रुध्+क्त, ६.१) of the enraged
जिह्वाम्जिह्वा (२.१) tongue
इवइव like
तक्षकस्यतक्षक (६.१) of Takshaka
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
वि स्फा र्य मा स्य तो भु जा भ्यां
भू ता नि र्त्रा नु न्त स्य
भि न्ना कृ तिं ज्यां दृ शुः स्फु न्तीं
क्रु द्ध स्य जि ह्वा मि क्ष स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.