उमापतिं पाण्डुसुतप्रणुन्नाः
शिलीमुखा न व्यथयांबभूवुः ।
अभ्युत्थितस्याद्रिपतेर्नितम्ब-
मर्कस्य पादा इव हैमनस्य ॥

अन्वयः AI पाण्डुसुतप्रणुन्नाः शिलीमुखाः उमापतिम् न व्यथयांबभूवुः, हैमनस्य अर्कस्य पादाः अभ्युत्थितस्य अद्रिपतेः नितम्बम् इव।
English Summary AI The arrows shot by the son of Pandu did not cause any pain to Umapati (Shiva), just as the rays of the winter sun do not affect the slopes of the towering lord of mountains (Himalaya).
सारांश AI अर्जुन द्वारा चलाए गए बाण शिव को उसी प्रकार व्यथित नहीं कर सके, जैसे जाड़े के समय उदय होते सूर्य की किरणें हिमालय पर्वत के ऊँचे शिखरों को कोई कष्ट नहीं पहुँचातीं।
घण्टापथव्याख्या (मल्लिनाथः) उमेति ॥ पाण्डुसुतेन प्रणुन्नाः प्रक्षिप्ताः शिली शल्यं मुखे येषां ते शिलीमुखा बाणा उमापतिं शिवमभ्युत्थितस्याभ्युन्नतस्याद्रिपतेर्नितम्वं कटकम् । हेमन्ते भवस्य हैमनस्य। सर्वत्राण्च तलोपश्च इत्यण्प्रत्ययः। तकारलोपश्च । अर्कस्य पादा रश्मय इव । पादा रश्म्यङ्घ्रितुर्यांशाः इत्यमरः (अमरकोशः ३.३.९७ ) । न व्यथयांबुभूवः । मध्ये स्थितस्यासुमतां समूहमर्कस्य इति पाठान्तरे मध्ये स्थितस्य हैमनस्यार्कस्य पादाः किरणा असुमतां प्राणिनां समूहमिवेति न दुःखमुत्पादयामासुरिति योजना ॥ संप्रीयमाणोऽनुबभूव तीव्रं पराक्रमं तस्य पतिर्गणानाम् । विषाणभेदं हिमवानसह्यं वप्रानतस्येव सुरद्विपस्य
पदच्छेदः AI
उमापतिंउमापति (२.१) Umapati (Shiva)
पाण्डुसुतप्रणुन्नाःपाण्डुसुतप्रणुन्न (प्र√नुद्+क्त, १.३) shot by the son of Pandu
शिलीमुखाशिलीमुख (१.३) the arrows
did not
व्यथयांबभूवुःव्यथयांबभूवुः (√व्यथ् +णिच् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) cause pain
अभ्युत्थितस्यअभ्युत्थित (अभि+उद्√स्था+क्त, ६.१) of the towering
अद्रिपतेर्नितम्बम्अद्रिपति (६.१)–नितम्बम् (२.१) the slope of the lord of mountains
अर्कस्यअर्क (६.१) of the sun
पादापाद (१.३) the rays
इवइव like
हैमनस्यहैमन (६.१) of winter
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
मा तिं पा ण्डु सु प्र णु न्नाः
शि ली मु खा व्य यां भू वुः
भ्यु त्थि स्या द्रि ते र्नि म्ब
र्क स्य पा दा है स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.