अथापदामुद्धरणक्षमेषु
मित्रेष्विवास्त्रेषु तिरोहितेषु ।
धृतिं गुरुश्रीर्गुरुणाभिपुष्य-
न्स्वपौरुषेणेव शरासनेन ॥

अन्वयः AI अथ आपदाम् उद्धरणक्षमेषु मित्रेषु इव अस्त्रेषु तिरोहितेषु सत्सु, गुरुश्रीः गुरुणा शरासनेन स्वपौरुषेण इव धृतिम् अभिपुष्यन्।
English Summary AI Then, with his weapons—like friends capable of rescuing from calamities—having vanished, Arjuna, possessing great splendor, sustained his courage with his great bow, as if with his own innate valor. (This begins a series of descriptions of Arjuna).
सारांश AI जब विपत्तियों को दूर करने में समर्थ मित्र रूपी अस्त्र लुप्त हो गए, तब महान शोभा वाले अर्जुन ने अपने पौरुष के समान भारी धनुष को धारण कर धैर्यपूर्वक स्थिति को संभाला।
घण्टापथव्याख्या (मल्लिनाथः) अथ पञ्चभिः पार्थं विशेषयन्षड्भि: कुलकमाह-अथेत्यादिभिः ॥ अथजललक्ष्मीप्रत्याकाङ्क्षानन्तरमापदामुद्धरणक्षमेष्वापन्निवारणसमर्थेष्वस्त्रेषु प्रस्वापनादिषु तादृशेषु मित्रेष्विव तिरोहितेष्वन्तर्हितेषु सत्सु गुरुणा महता स्वपौरुषेणेव तादृशेन शरासनेन धृतिं धैर्यमभिपुष्यन्वर्धयन् । अद्यापि धनुषि पौरुषे च सति कियानयं किरात इति धैर्यभवलम्बमान इत्यर्थः । अतएव गुरुश्रीः प्रवृद्धशोभासंपत्तिः । पद्मा मा लक्ष्मीः श्रीर्निगद्यते इति शाश्वतः ॥
पदच्छेदः AI
अथअथ Then
आपदाम्आपद् (६.३) of calamities
उद्धरणक्षमेषुउद्धरण (उद्√हृ+ल्युट्)क्षम (७.३) in those capable of rescuing
मित्रेषुमित्र (७.३) friends
इवइव like
अस्त्रेषुअस्त्र (७.३) his weapons
तिरोहितेषुतिरोहित (तिरस्√धा+क्त, ७.३) having vanished
धृतिम्धृति (२.१) courage
गुरुश्रीःगुरुश्री (१.१) he of great splendor
गुरुणागुरु (३.१) with his great
अभिपुष्यन्अभिपुष्यत् (अभि√पुष्+शतृ, १.१) sustaining
स्वपौरुषेणस्वपौरुष (३.१) with his own valor
इवइव as if
शरासनेनशरआसन (३.१) with his bow
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
था दा मु द्ध क्ष मे षु
मि त्रे ष्वि वा स्त्रे षु ति रो हि ते षु
धृ तिं गु रु श्री र्गु रु णा भि पु ष्य
न्स्व पौ रु षे णे रा ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.