वीतप्रभावतनुरप्यतनुप्रभावः
प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् ।
अस्त्रेषु भूतपतिनापहृतेषु जिष्णु-
र्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥

अन्वयः AI अस्त्रेषु भूतपतिना अपहृतेषु सत्सु, वीतप्रभावतनुः अपि अतनुप्रभावः जिष्णुः, जलेषु वर्षिष्यता दिनकृता लोकः इव, जयिनीम् भुजवीर्यलक्ष्मीम् प्रत्याचकाङ्क्ष।
English Summary AI With his weapons taken away by Shiva, Arjuna, though his physical power was gone, remained undiminished in inner strength. He longed again for the victorious glory of his arm's might, just as the world, its waters evaporated by the sun, longs for that same sun to bring rain.
सारांश AI शिव द्वारा अस्त्रों को हर लेने पर, यद्यपि अर्जुन की बाहरी आभा कम हो गई थी, फिर भी महान प्रभाव वाले उन्होंने अपनी भुजाओं के बल से विजय की अभिलाषा की, जैसे संसार जल की वर्षा के लिए सूर्य की प्रतीक्षा करता है।
घण्टापथव्याख्या (मल्लिनाथः) वीतेति ॥ भूतपतिना शंभुना । अनुग्रहीष्यतेति शेषः । अस्त्रेष्वपहृतेषु सत्सु वर्षिष्यतोत्तरत्र सहस्रगुणं वितरिष्यता दिनकृता सूर्येण जलेष्वपहृतेषु सत्सु लोक इव वीतप्रभावो गतास्त्रमहिमा । अन्यत्र गतशक्तिः। अतएव तनुः क्षीणो वीतप्रभावतनुस्तथाप्यतनुप्रभावो निसर्गतः सामर्थ्यादधिकः । अन्यत्रोद्योगवान् । ततो जिष्णुरर्जुनो जयिनीं जयनशीलाम् । जिदृक्षि- (अष्टाध्यायी ३.२.१५७ ) इत्यादिनेनिप्रत्ययः । भुजवीर्यलक्ष्मीं भुजपराक्रमसंपदम् । उभयत्रापि पुरुषकारमिति यावत् । तत्कालकुण्ठितामिति शेषः। प्रत्याचकाङ्क्ष । प्रत्याहर्तुमियेषेत्यर्थः । यथा लोको नद्यादिजलापहारेऽप्युपायान्तरेण कूपादिना जीवितुमिच्छति तद्वदस्त्रबलापहारेऽपि भुजबलेनैव जेतुमियेषेति भावः । वसन्ततिलकावृत्तम्
पदच्छेदः AI
वीतप्रभावतनुरपिवीतप्रभावतनु (१.१)अपि though his body's power was gone
अतनुप्रभावःअतनुप्रभाव (१.१) of undiminished inner strength
प्रत्याचकाङ्क्षप्रत्याचकाङ्क्ष (प्रति+आ√काङ्क्ष् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) longed for again
जयिनीम्जयिन् (२.१) victorious
भुजवीर्यलक्ष्मीम्भुजवीर्यलक्ष्मी (२.१) the glory of his arm's might
अस्त्रेषुअस्त्र (७.३) the weapons
भूतपतिनाभूतपति (३.१) by the Lord of Beings (Shiva)
अपहृतेषुअपहृत (अप√हृ+क्त, ७.३) having been taken away
जिष्णुःजिष्णु (१.१) Jishnu (Arjuna, the victorious)
वर्षिष्यतावर्षिष्यत् (√वृष्+लृट्-शतृ, ३.१) by the one about to rain
दिनकृतादिनकृत् (३.१) by the sun
इवइव like
जलेषुजल (७.३) its waters
लोकःलोक (१.१) the world
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
वी प्र भा नु प्य नु प्र भा वः
प्र त्या का ङ्क्ष यि नीं भु वी र्य क्ष्मीम्
स्त्रे षु भू ति ना हृ ते षु जि ष्णु
र्व र्षि ष्य ता दि कृ ते ले षु लो कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.