रथाङ्गसंक्रीडितमश्वहेषा
बृहन्ति मत्तद्विपबृंहितानि ।
संघर्षयोगादिव मूर्छितानि
ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥

अन्वयः AI रथाङ्गसंक्रीडितम्, अश्वहेषा, मत्तद्विपबृंहितानि बृहन्ति, संघर्षयोगात् मूर्छितानि इव, दुन्दुभीनाम् ह्रादं न निगृह्णन्ति ।
English Summary AI The rattling of chariots, the neighing of horses, and the great trumpetings of mad elephants do not, as if intensified by their combined clash, suppress the roar of war-drums here. (Arjuna notes the absence of the cacophony of a great army).
सारांश AI रथों की घरघराहट, घोड़ों की हिनहिनाहट और मतवाले हाथियों का चिंघाड़ना दुंदुभियों के गंभीर स्वर को भी दबा रहा है, मानो ये ध्वनियाँ आपस में प्रतिस्पर्धा कर रही हों।
घण्टापथव्याख्या (मल्लिनाथः) रथाङ्गेति ॥ रथाङ्गसंक्रीडितं रथचक्रकूजितमश्वानां च हेषा ह्रेषितानि शब्दितानि । अश्वानां हेषा ह्रेषा च निःस्वनः इत्यमरः । बृहन्ति महान्ति मत्तद्विपानां बृंहि तानि । इंहितं करिगर्जितम् इत्यमरः (अमरकोशः २.८.१०७ ) । संघर्षयोगादिव परस्परस्पर्धासंबन्धादिव मूर्च्छितानि वृद्धिं गतानि सन्ति । नपुंसकमनपुंसक- (अष्टाध्यायी १.२.६९ ) इत्यादिना नपुंसकैकशेषः । दुन्दुभीनां भेरीणां ह्रादं निर्घोषम् । स्वाननिर्घोषनिर्ह्राद- इत्यमरः (अमरकोशः १.६.२५ ) । न निगृह्णन्ति न तिरस्कुर्वन्ति ॥
पदच्छेदः AI
रथाङ्गसंक्रीडितम्रथअङ्गसंक्रीडित (१.१) the rattling of chariot parts
अश्वहेषाअश्वहेषा (१.१) the neighing of horses
बृहन्तिबृहत् (१.३) great
मत्तद्विपबृंहितानिमत्तद्विपबृंहित (१.३) the trumpetings of intoxicated elephants
संघर्षयोगात्संघर्षयोग (५.१) due to the combination of clashing sounds
इवइव as if
मूर्छितानिमूर्छित (√मूर्छ्+क्त, १.३) intensified/fainted
ह्रादम्ह्राद (२.१) the roar
निगृह्णन्तिनिगृह्णन्ति (नि√ग्रह् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) do not suppress
not
दुन्दुभीनाम्दुन्दुभि (६.३) of the war-drums
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
था ङ्ग सं क्री डि श्व हे षा
बृ न्ति त्त द्वि बृं हि ता नि
सं र्ष यो गा दि मू र्छि ता नि
ह्रा दं नि गृ ह्ण न्ति दु न्दु भी नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.