प्रतप्तचामीकरभासुरेण
दिशः प्रकाशेन पिशङ्गयन्त्यः ।
निश्चक्रमुः प्राणहरेक्षणानां
ज्वाला महोल्का इव लोचनेभ्यः ॥

अन्वयः AI प्राणहर-ईक्षणानाम् लोचनेभ्यः प्रतप्त-चामीकर-भासुरेण प्रकाशेन दिशः पिशङ्गयन्त्यः ज्वालाः महा-उल्काः इव निश्चक्रमुः।
English Summary AI From the eyes of the life-taking serpents, flames, which made the quarters tawny with a radiance as brilliant as molten gold, issued forth like great meteors.
सारांश AI तपाये हुए सुवर्ण के समान चमकती हुई और प्राणों को हरने वाली अग्नि की ज्वालाएँ उन सर्पों के नेत्रों से महाउल्काओं की तरह निकलने लगीं।
घण्टापथव्याख्या (मल्लिनाथः) प्रतप्तेति ॥प्राणहराणीक्षणानि येषां तेषां प्राणहरेक्षणानां दृष्टिविषाणां सर्पविशेषाणां लोचनेभ्यो नेत्रेभ्यः। प्रतप्तं यच्चामीकरं सुवर्णं तद्वद्भासुरेण । भञ्जभासमिदो घुरच् (अष्टाध्यायी ३.२.१६१ ) इति घुरच्प्रत्ययः । प्रकाशेन तेजसा दिशा: पिशङ्ग्यन्त्यो ज्वाला महोल्का इव निश्चक्रमुर्निर्जग्मुः ॥ आक्षिप्तसंपातमपेतशोभमुद्वह्नि धूमाकुलदिग्विभागम् । वृतं नभो भोगिकुलैरवस्थां परोपरुद्धस्य पुरस्य भेजे
पदच्छेदः AI
प्रतप्तचामीकरभासुरेणप्रतप्त (प्र√तप्+क्त)चामीकरभासुर (३.१) with a brilliance like molten gold
दिशःदिश् (२.३) the quarters
प्रकाशेनप्रकाश (३.१) with radiance
पिशङ्गयन्त्यःपिशङ्गयन्ती (√पिशङ्ग+णिच्+शतृ, १.३) making tawny
निश्चक्रमुःनिश्चक्रमुः (निर्√क्रम् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) issued forth
प्राणहरेक्षणानाम्प्राणहर (√हृ)ईक्षण (६.३) of those with life-taking eyes
ज्वालाःज्वाला (१.३) flames
महोल्काःमहत्उल्का (१.३) great meteors
इवइव like
लोचनेभ्यःलोचन (५.३) from the eyes
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
प्र प्त चा मी भा सु रे
दि शः प्र का शे पि ङ्ग न्त्यः
नि श्च क्र मुः प्रा रे क्ष णा नां
ज्वा ला हो ल्का लो ने भ्यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.