स सम्प्रधार्यैवमहार्यसारः
सारं विनेष्यन्सगणस्य शत्रोः ।
प्रस्वापनास्त्रं द्रुतमाजहार
ध्वान्तं घनानद्ध इवार्धरात्रः ॥

अन्वयः AI एवम् सम्प्रधार्य, अहार्यसारः सः, सगणस्य शत्रोः सारं विनेष्यन्, घनानद्धः अर्धरात्रः ध्वान्तम् इव, प्रस्वापनास्त्रं द्रुतम् आजहार।
English Summary AI Having thus resolved, Arjuna, a man of unconquerable strength, wishing to destroy the power of the enemy and his followers, quickly brought forth the sleep-inducing weapon, just as a cloud-covered midnight brings forth darkness.
सारांश AI अपनी सेना सहित शत्रु के बल को नष्ट करने का विचार कर अर्जुन ने शीघ्र ही 'प्रस्वापन' अस्त्र का प्रयोग किया, जैसे आधी रात का घना अंधकार छा जाता है।
घण्टापथव्याख्या (मल्लिनाथः) स इति ॥ अहार्यसारोऽनिवार्यवीर्यः सोऽर्जुन एवं संप्रधार्य निश्चित्य सगणस्य सानुगस्य शत्रोः सारं सत्त्वं विनेष्यन्नपनेष्यन् । प्रस्वाप्यन्ते शाय्यन्तेऽनेनेति प्रस्वापनं तदेवास्त्रम् । घनानद्धो मेघव्याप्तोऽर्धरात्रो निशीथः । अर्धरात्रनिशीथौ द्वौ इत्यमरः (अमरकोशः १.४.७ ) अर्धं नपुंसकम् (अष्टाध्यायी २.२.२ ) इति समासः। 'अहःसर्वैकदेश-' इत्यादिना समासान्तः 'रात्राह्राहाः पुंसि (अष्टाध्यायी ३.३.११८ ) इति पुंलिङ्गता। ध्वान्तमिव द्रुतमाजहाराचकर्ष ॥
पदच्छेदः AI
सःतद् (१.१) He
सम्प्रधार्यसम्प्रधार्य (सम्+प्र√धृ+ल्यप्) having thus resolved
एवम्एवम् thus
अहार्यसारःअहार्यसार (१.१) of unconquerable strength
सारम्सार (२.१) the power
विनेष्यन्विनेष्यत् (वि√नी+शतृ, १.१) wishing to destroy
सगणस्यसगण (६.१) with his followers
शत्रोःशत्रु (६.१) of the enemy
प्रस्वापनास्त्रम्प्रस्वापनअस्त्र (२.१) sleep-inducing weapon
द्रुतम्द्रुत (२.१) quickly
आजहारआजहार (आ√हृ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) brought forth
ध्वान्तम्ध्वान्त (२.१) darkness
घनानद्धःघनआनद्ध (१.१) covered by clouds
इवइव like
अर्धरात्रःअर्धरात्र (१.१) midnight
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
म्प्र धा र्यै हा र्य सा रः
सा रं वि ने ष्य न्स स्य त्रोः
प्र स्वा ना स्त्रं द्रु मा हा
ध्वा न्तं ना द्ध वा र्ध रा त्रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.