अप्राकृतस्याहवदुर्मदस्य
निवार्यमस्यास्त्रबलेन वीर्यम् ।
अल्पीयसोऽप्यामयतुल्यवृत्ते-
र्महापकाराय रिपोर्विवृद्धिः ॥

अन्वयः AI अप्राकृतस्य आहवदुर्मदस्य अस्य वीर्यम् अस्त्रबलेन निवार्यम्। यतः अल्पीयसः अपि आमयतुल्यवृत्तेः रिपोः विवृद्धिः महाअपकाराय भवति।
English Summary AI The prowess of this extraordinary and battle-fierce person must be checked by the power of divine weapons. For the growth of an enemy, even a small one whose nature is like a disease, leads to great harm.
सारांश AI असाधारण और युद्ध-उन्मत्त शत्रु की शक्ति को अस्त्रबल से रोकना चाहिए, क्योंकि रोग के समान छोटे शत्रु की वृद्धि भी भारी अनर्थकारी होती है।
घण्टापथव्याख्या (मल्लिनाथः) अप्राकृतस्येति॥अप्राकृतस्योक्तरीत्यासाधारणस्याहवदुर्मदस्य रणमत्तस्यास्य किरातस्य वीर्यं तेजोऽस्त्रबलेन दिव्यास्त्रमहिम्ना निवार्यं निवारणीयम्। अन्यथानिवार्यत्वमस्येति भावः । तथा हि । अल्पीयसोऽप्यत्यल्पस्याप्यामयतुल्यवृत्ते रोगसमानक्रियस्य । रोगव्याधिगदामयाः इत्यमरः (अमरकोशः २.६.५१ ) ।रिपोर्विवृद्धिर्महापकाराय । किं त्वयं महानुभाव इति भावः ॥ स संप्रधार्यैव महार्यसारः सारं विनेष्यन्सगणस्य शत्रोः। प्रस्वापनास्त्रं द्रुतमाजहार ध्वान्तं घनानद्ध इवार्धरात्रः
पदच्छेदः AI
अप्राकृतस्यअप्राकृत (६.१) of this extraordinary
आहवदुर्मदस्यआहवदुर्मद (६.१) fierce in battle
निवार्यम्निवार्य (नि√वृ+ण्यत्, १.१) must be checked
अस्यइदम् (६.१) his
अस्त्रबलेनअस्त्रबल (३.१) by the power of divine weapons
वीर्यम्वीर्य (१.१) prowess
अल्पीयसःअल्पीयस् (६.१) of a very small
अपिअपि even
आमयतुल्यवृत्तेःआमयतुल्यवृत्ति (६.१) whose nature is like a disease
महापकारायमहापकार (४.१) for great harm
रिपोःरिपु (६.१) of an enemy
विवृद्धिःविवृद्धि (१.१) the growth
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
प्रा कृ स्या दु र्म स्य
नि वा र्य स्या स्त्र ले वी र्यम्
ल्पी सो ऽप्या तु ल्य वृ त्ते
र्म हा का रा रि पो र्वि वृ द्धिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.