प्रहीयते कार्यवशागतेषु
स्थानेषु विष्टब्धतया न देहः ।
स्थितप्रयातेषु ससौष्ठवश्च
लक्ष्येषु पातः सदृशः शराणाम् ॥

अन्वयः AI कार्यवशात् आगतेषु स्थानेषु देहः विष्टब्धतया न प्रहीयते। च स्थितप्रयातेषु लक्ष्येषु शराणां पातः ससौष्ठवः सदृशः च अस्ति।
English Summary AI In the various postures required by the action, his body is not given to stiffness. And the fall of his arrows on targets, whether stationary or moving, is consistently graceful and accurate.
सारांश AI विषम स्थानों में भी अर्जुन का शरीर शिथिल नहीं होता; उनकी मुद्राओं में सौंदर्य है और उनके बाणों का प्रहार लक्ष्य पर सटीक बैठता है।
घण्टापथव्याख्या (मल्लिनाथः) प्रहीयत इति ॥ कार्यवशेन प्रयोजनवशेनागतेषु स्थानेष्वालीढादिस्थानकेषु देहो विष्टब्धतया स्थिरतया कर्त्र्या न प्रहीयते न त्यज्यते।किंतु स्थिर एव तिष्ठतीत्यर्थः। सुष्टु भावः सौष्ठवं लाघवम् । उद्गात्रादित्वादञ्प्रत्ययः । तेन सह वर्तमानः ससौष्ठवः शराणां पातश्च स्थितान्यचलानि प्रयातानि चलानि तेषु स्थितप्रयातेषु चलाचलेषु लक्ष्येषु विषये सदृश एकरूपः ॥
पदच्छेदः AI
प्रहीयतेप्रहीयते (प्र√हा भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is given up
कार्यवशात्कार्यवशात् (५.१) due to the requirements of action
आगतेषुआगत (आ√गम्+क्त, ७.३) in assumed
स्थानेषुस्थान (७.३) postures
विष्टब्धतयाविष्टब्धता (३.१) to stiffness
not
देहःदेह (१.१) the body
स्थितप्रयातेषुस्थितप्रयात (७.३) on stationary and moving
ससौष्ठवःससौष्ठव (१.१) graceful
and
लक्ष्येषुलक्ष्य (७.३) targets
पातःपात (१.१) the fall
सदृशःसदृश (१.१) consistent
शराणाम्शर (६.३) of the arrows
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
प्र ही ते का र्य शा ते षु
स्था ने षु वि ष्ट ब्ध या दे हः
स्थि प्र या ते षु सौ ष्ठ श्च
क्ष्ये षु पा तः दृ शः रा णाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.