Loading data... On slow networks this could take a few minutes.
100%

मदस्रुतिश्यामितगण्डलेखाः
क्रामन्ति विक्रान्तनराधिरूढाः ।
सहिष्णवो नेह युधामभिज्ञा
नागा नगोच्छ्रायमिवाक्षिपन्तः ॥

अन्वयः AI इह मदस्रुतिश्यामितगण्डलेखाः, विक्रान्तनराधिरूढाः, युधाम् अभिज्ञाः, नगोच्छ्रायम् आक्षिपन्तः इव, सहिष्णवः नागाः न क्रामन्ति ।
English Summary AI (Arjuna thinks:) Here, there are no striding elephants—enduring, skilled in battle, mounted by valiant men, with cheek-lines darkened by flowing ichor, and appearing to scorn the height of mountains. This is no ordinary army.
सारांश AI मद की धारा से काले कपोलों वाले हाथी, जिन पर पराक्रमी योद्धा सवार हैं, पर्वतों की ऊँचाई को चुनौती देते हुए आगे बढ़ रहे हैं। ये युद्ध के अभ्यस्त न होने पर भी अत्यंत सहनशील प्रतीत हो रहे हैं।
घण्टापथव्याख्या (मल्लिनाथः) मदेत्यादि ॥ इहास्मिन्युद्धे मदस्रुतिभिर्मदप्रवाहैः श्यामाः कृताः श्यामिता गण्डलेखाः कपोलभागा येषां ते विक्रान्ताः पराक्रमं कुर्वन्तः । कर्तरि क्तः । शूरो वीरश्च विक्रान्तः इत्यमरः (अमरकोशः २.८.७७ ) । तैर्नरैरधिरूढाः सहिष्णवो रणभरक्षमा युधां युद्धानामभिज्ञाः । शिक्षितां इत्यर्थः । कृद्योगात्कर्मणि षष्ठी। किं च। नगानामुच्छ्रायं पर्वतानामौन्नत्यम् । धञन्तेनोपसर्गस्य समासो नोपसृष्टाद्धञ्प्रत्ययः । त्रिणीभुवोऽनुपसर्गे इत्यत्रानुपसर्ग इति निषेधात् । आक्षिपन्तः प्रतिषेधयन्त इव स्थिताः। तथोन्नता इत्यर्थः । नागा गजा इह सङ्ग्रामे न क्रामन्ति न चरन्ति । यथा युद्धान्तरेष्विति शेषः । एवमुत्तरत्रापि सर्वत्र द्रष्टव्यम् । तथापि कथं मे शक्तिह्रासोऽयमिति सर्वत्र तात्पर्थार्थः ।
पदच्छेदः AI
मदस्रुतिश्यामितगण्डलेखाःमदस्रुतिश्यामितगण्डलेखा (१.३) whose cheek-lines are darkened by the flow of ichor
क्रामन्तिक्रामन्ति (√क्रम् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are striding
विक्रान्तनराधिरूढाःविक्रान्तनरअधिरूढ (१.३) mounted by valiant men
सहिष्णवःसहिष्णु (१.३) enduring
not
इहइह here
युधाम्युध् (६.३) of battles
अभिज्ञाःअभिज्ञ (१.३) skilled in
नागाःनाग (१.३) elephants
नगोच्छ्रायम्नगउच्छ्राय (२.१) the height of a mountain
इवइव as if
आक्षिपन्तःआक्षिपत् (आ√क्षिप्+शतृ, १.३) scorning/surpassing
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्रु ति श्या मि ण्ड ले खाः
क्रा न्ति वि क्रा न्त रा धि रू ढाः
हि ष्ण वो ने यु धा भि ज्ञा
ना गा गो च्छ्रा मि वा क्षि न्तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.