पुंसः पदं मध्यममुत्तमस्य
द्विधेव कुर्वन्धनुषः प्रणादैः ।
नूनं तथा नैषा यथास्य वेषः
प्रच्छन्नमप्यूहयते हि चेष्टा ॥

सारांश AI धनुष के भीषण टंकार से दसों दिशाओं को गुँजायमान करने वाले इस पुरुष की चेष्टाएँ इसके वेष के विपरीत हैं। इसका गुप्त किंतु वास्तविक प्रभाव इसके पराक्रम से स्पष्ट झलक रहा है।
घण्टापथव्याख्या (मल्लिनाथः) पुंस इति॥ किं च। उत्तमस्य पुंसः पुरुषोत्तमस्य मध्यमं पदमाकाशं धनुषः प्रणादैः। उपसर्गादसमासेऽपि णोपदेशस्य (अष्टाध्यायी ८.४.१४ ) इति णत्वम् । द्विधा कुर्वन्निव विदारयन्निव स्थित एष किरातो नूनं तथा तथाभूतो न । कीदृशस्तत्राह-अस्य पुरुषस्य यथा यथाभूतो वेषः । वर्तत इति शेषः । वेषत एवायं किरातो न स्वरूपत इत्यर्थः । कुतः। हि यस्माच्चेष्टा व्यापारः प्रच्छन्नमपि निगूढमपि स्वरूपमूहयते तर्कयते । तस्याः स्वभावादव्यभिचारादिति भावः ॥ अथ चतुर्भिश्चेष्टामेवाचष्टे
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
पुं सः दं ध्य मु त्त स्य
द्वि धे कु र्व न्ध नु षः प्र णा दैः
नू नं था नै षा था स्य वे षः
प्र च्छ न्न प्यू ते हि चे ष्टा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.