मा विहासिष्ट समरं समरन्तव्यसंयतः ।
क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः ॥

अन्वयः AI सम-रन्तव्य-संयताः (यूयम्) समरम् मा विहासिष्ट । क्षुण्ण-असुर-गणैः (युष्माभिः) यशः अगणैः इव किम् क्षतम्?
English Summary AI "O you who are self-controlled and should face battle calmly, do not abandon the fight! Why is your fame, earned by crushing hordes of Asuras, now being damaged as if by worthless cowards?"
सारांश AI हे योद्धाओं, तुम युद्ध का परित्याग मत करो। असुरों के समूहों को कुचलने वाले पराक्रमी वीरों, क्या तुम साधारण लोगों की भांति अपने यश को नष्ट होने दोगे?
घण्टापथव्याख्या (मल्लिनाथः) रन्तव्यं रमणं क्रीडा । बहुलग्रहणाद्भावे तव्यप्रत्ययः । संयद्युद्धम् । समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः इत्यमरः (अमरकोशः २.८.१०६ ) । समे रन्तव्यसंयती येषां ते समरन्तव्यसंयतः तुल्यक्रीडासंगरा इति तेषां संबोधनम् । यूयं समरं सङ्ग्रामं मा विहासिष्ट न त्यजत । जहातेर्माङि लुङ् । मध्यमबहुवचनम् । क्षुण्णाः पराजिता असुरगणा यैस्तैः। भवद्भिरिति शेषः । अगणैरिव गणेभ्योऽन्यैरिव किं किमर्थं यशः क्षतं नाशितम् । नैतद्युक्तं महाशूराणां भवादृशानामित्यर्थः ॥
पदच्छेदः AI
मामा do not
विहासिष्टविहासिष्ट (वि√हा कर्तरि लुङ् (परस्मै.) म.पु. बहु.) abandon
समरम्समर (२.१) the battle
सम-रन्तव्य-संयतःसमरन्तव्यसंयत (८.३) O you who are self-controlled and should delight equally
क्षतम्क्षत (√क्षन्+क्त, १.१) damaged
क्षुण्ण-असुर-गणैःक्षुण्णअसुरगण (३.३) by you who have crushed hordes of Asuras
अगणैःअगण (३.३) by worthless ones
इवइव like
किम्किम् why
यशःयशस् (१.१) fame
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मा वि हा सि ष्ट रं
न्त व्य सं तः
क्ष तं क्षु ण्णा सु णै
णै रि किं शः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.