Loading data... On slow networks this could take a few minutes.
100%

विकाशमीयुर्जगतीशमार्गणा
विकाशमीयुर्जगतीशमार्गणाः ।
विकाशमीयुर्जगतीशमार्गणा
विकाशमीयुर्जगतीशमार्गणाः ॥

अन्वयः AI (अर्जुनस्य) जगतीशमार्गणाः विकासम् ईयुः, (शिवस्य) जगतीशमार्गणाः विकासम् ईयुः, (भूमौ) जगतीशमार्गणाः (मृगाः) न विकासम् ईयुः, (भूमौ) जगतीशमार्गणाः (वृक्षाः) न विकासम् ईयुः ।
English Summary AI The arrows of Arjuna (lord of the earth) achieved expansion; the arrows of Shiva (lord of the universe) met destruction. The beasts (seekers) on the earth did not awaken; the trees (sought for shade) on the earth did not blossom.
सारांश AI इस युद्ध में पृथ्वी के स्वामी अर्जुन और महादेव शिव, दोनों के ही बाणों ने अपनी तीक्ष्णता और व्यापकता से आकाश व पृथ्वी को भर दिया।
घण्टापथव्याख्या (मल्लिनाथः) विकाशमिति ॥ जगतीशस्य पृथिवीपतेरर्जुनस्य मार्गणा बाणा विकासं विस्तारमीयुः। तथा जगति लोक ईशमार्गणाः शंभुशरा विकासं विषमगतिमीयुः। भङ्गभीयुरित्यर्थः। तथा जगतीं पृथ्वीं श्यन्ति तनूकुर्वन्तीति जगतीशा दानवाः।आतोऽनुपसर्गे क:। तान्मारयन्तीति जगतीशमारः। म्रियतेर्ण्यन्तात्क्विप् । ते च ते गणाः प्रमथाश्च जगतीशमार्गणा विकासमुल्लासमीयुः। हर्षं प्रापुरित्यर्थः । अहो देवेऽप्यस्य पराक्रमप्रसर इति विस्मयादिति भावः । तदानीं मार्गयन्तीति मार्गणा अन्वेषकाः । कर्तरि ल्युटू । जगतीशस्य त्रैलोक्यनाथस्य मार्गणा अन्वेषकाः शिवद्रष्टारो देवर्ष्यादयो वीनां पक्षिणां कासो गतिरत्रेति विकासमाकाशमीयुः। दिदृक्षयेति भावः ॥ संपश्यतामिति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् । अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां रोमाञ्चमञ्चिततरं बिभरांबभूवुः
पदच्छेदः AI
विकासम्विकास (२.१) expansion / destruction / blooming
ईयुःईयुः (√इ कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) attained
जगतीशमार्गणाःजगतीईशमार्गण (१.३) arrows of the lord of the world / seekers on earth
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि का मी यु र्ज ती मा र्ग णा
वि का मी यु र्ज ती मा र्ग णाः
वि का मी यु र्ज ती मा र्ग णा
वि का मी यु र्ज ती मा र्ग णाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.