घनं विदार्यार्जुनबाणपूगं
ससारबाणोऽयुगलोचनस्य ।
घनं विदार्यार्जुनबाणपूगं
ससार बाणोऽयुगलोचनस्य ॥

अन्वयः AI अयुगलोचनस्य बाणः घनम् अर्जुनबाणपूगम् विदार्य ससार । अयुगलोचनस्य बाणः अर्जुनबाणपूगम् घनम् विदार्य ससार ।
English Summary AI The arrow of the odd-eyed one (Shiva) went forth, having pierced the dense multitude of Arjuna's arrows. The arrow of the odd-eyed one went forth, having split the multitude of Arjuna's arrows as if it were a cloud.
सारांश AI त्रिलोचन शिव का प्रभावशाली बाण अर्जुन के सघन बाण-समूह को छिन्न-भिन्न कर उसी प्रकार आगे बढ़ा, जैसे सूर्य की किरण घने बादलों को चीर देती है।
घण्टापथव्याख्या (मल्लिनाथः) घनमिति ॥ अयुगलोचनस्य विषमनेत्रस्येशस्यालोचनस्य । लोच्यतेऽसौ लोचनः । कर्मणि ल्युट् । न लोचनोऽलोचनस्तस्यालोचनस्याचाक्षुषज्ञानविषयस्य संबन्धी सारो बलं वाणः शब्दस्ताभ्यां सारवाणाभ्यां स्थिरशब्दाभ्यां सह वर्तते इति ससारवाणः । बवयोरभेद इत्युक्तम् । न युज्यते कुत्रापीत्ययुक्सङ्गरहितः। क्विप् । बाणः शरः । जातावेकवचनम् । घनं सान्द्रमर्जुनस्य बाणपूगं शरव्रातं विदार्य विभिद्य घनं निबिडं विदार्यो भूमिकूष्माण्ड्यो लताविशेषा अर्जुनाः ककुभवृक्षा बाणा नीलसैरेयकाः पूगाः क्रमुकास्तेषाम् । विभाषा वृक्ष- (अष्टाध्यायी २.४.१२ ) इत्यादिना द्वन्द्वैकवद्भावः। विदार्यार्जुनबाणपूगं ससार । विवेशेत्यर्थः। 'सृ गतौ । यद्वा तदानीमेव युगलोचनस्यार्जुनस्य बाणः ससारेत्यर्थः ॥ रुजन्महेषून्बहुधाशुपातिनो मुहुः शरौघैरपवारयन्दिशः। चलाचलोऽनेक इव क्रियावशान्महर्षिसंघैर्बुबुधे धनंजयः
पदच्छेदः AI
घनम्घन (२.१) dense / a cloud
विदार्यविदार्य (वि√दृ+णिच्+ल्यप्) having split/pierced
अर्जुनबाणपूगम्अर्जुनबाणपूग (२.१) the multitude of Arjuna's arrows
ससारससार (√सृ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) moved/went
बाणःबाण (१.१) the arrow
अयुगलोचनस्यअयुगलोचन (६.१) of the odd-eyed one (Shiva)
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११
नं वि दा र्या र्जु बा पू गं
सा बा णो ऽयु लो स्य
नं वि दा र्या र्जु बा पू गं
सा बा णो ऽयु लो स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.