Loading data... On slow networks this could take a few minutes.
100%

शम्भो धनुर्मण्डलतः प्रवृत्तं
तं मण्डलादंशुमिवांशुभर्तुः ।
निवारयिष्यन्विदधे सिताश्वः
शिलीमुखच्छायवृतां धरित्रीम् ॥

अन्वयः AI सिताश्वः शम्भोः धनुर्मण्डलतः प्रवृत्तम्, अंशुभर्तुः मण्डलात् प्रवृत्तम् अंशुम् इव स्थितम्, तम् (इषुम्) निवारयिष्यन्, धरित्रीम् शिलीमुखच्छायवृताम् विदधे ।
English Summary AI Wishing to ward off that arrow—which issued from the orb of Shiva's bow like a ray from the orb of the sun—Arjuna (he with white horses) made the earth covered with the shadow of his own arrows.
सारांश AI शिव के धनुष-मण्डल से निकले सूर्य-किरण सदृश बाण को रोकने हेतु अर्जुन ने अपनी बाण-वर्षा की छाया से समस्त पृथ्वी को आच्छादित कर दिया।
घण्टापथव्याख्या (मल्लिनाथः) शंभोरिति ॥ सितांश्वोऽर्जुनः शंभोर्धनुर्मण्डलतो धनुर्वलयात्प्रवृत्तं निष्क्रान्तं तमिषुम् । अंशुभर्तुरर्कस्य मण्डलात्प्रवृत्तमंशुमिव । अत्रापीषुवज्जातावेकवचनम् । निवारयिष्यन्निवारयितुकामः । क्रियार्थक्रियायां लृटि तस्य शत्रादेशः । धरित्रीं भुवं शिलीमुखानां छाया शिलीमुखच्छायम् । छाया बाहुल्ये (अष्टाध्यायी २.४.२२ ) इति नपुंसकत्वम् । तेन वृतां व्याप्तां विदधे कृतवान् । शरजालच्छायावृतां धरित्रीमकरोदित्यर्थः । उपमालंकारः ॥
पदच्छेदः AI
शम्भोःशम्भु (६.१) of Shambhu (Shiva)
धनुर्मण्डलतःधनुस्मण्डल (५.१) from the orb of the bow
प्रवृत्तम्प्रवृत्त (प्र√वृत्+क्त, २.१) issued forth
तम्तद् (२.१) that (arrow)
मण्डलात्मण्डल (५.१) from the orb
अंशुम्अंशु (२.१) a ray
इवइव like
अंशुभर्तुःअंशुभर्तृ (६.१) of the lord of rays (the Sun)
निवारयिष्यन्निवारयिष्यत् (नि√वृ+णिच्+स्य+शतृ, १.१) wishing to ward off
विदधेविदधे (वि√धा कर्तरि लिट् (आत्मने.) प्र.पु. एक.) made
सिताश्वःसितअश्व (१.१) he with white horses (Arjuna)
शिलीमुखच्छायवृताम्शिलीमुखछायावृत (२.१) covered by the shadow of arrows
धरित्रीम्धरित्री (२.१) the earth
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
म्भो नु र्म ण्ड तः प्र वृ त्तं
तं ण्ड ला दं शु मि वां शु र्तुः
नि वा यि ष्य न्वि धे सि ता श्वः
शि ली मु च्छा वृ तां रि त्रीम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.