अन्वयः
AI
जगतीशरणे युक्तः, हरिकान्तः, सुधासितः, दानवर्षीकृताशंसः (सः) नागराजः इव अबभौ ।
English Summary
AI
Engaged in protecting the world, beloved of Indra, white as nectar, and eager to shower gifts (of arrows), Arjuna appeared like a great king of elephants.
सारांश
AI
पृथ्वी की रक्षा में तत्पर, इंद्र के प्रिय और सुधा के समान धवल कान्ति वाले अर्जुन दानशील गजराज की भाँति सुशोभित हुए।
घण्टापथव्याख्या (मल्लिनाथः)
जगतीति ॥ अर्थत्रयवाची श्लोकोऽयम् । तत्रादावगराज इति पदच्छेदमाश्रित्य प्रथमोऽर्थोऽभिधीयते-ईशस्य रणे युक्तः शक्तः। अन्यत्रजगतीशरणे भूरक्षणे युक्तःस्थितः। विधिनेति शेषः। हरिः सिंह इव कान्तो मनोहरः । अन्यत्र हरीणां सिंहानां कान्त आवासदानात्प्रियः । सुष्टु दधाति पालयति प्रजा इति सुधा । क्विबन्तः । असितः कृष्णवर्णः । ततो विशेषणसमासः । अन्यत्र सुधा लेपद्रव्यविशेषस्तद्वत्सितो धवलः। दानवर्षी बहुप्रदः कृताशंसः कृतजयाभिलाषः । अन्यत्र दानवैर्दैत्यैर्ऋषिभिः इना कामेन च कृताशंसा नानाफलाभिलाषो यस्मिन्स ना नरोऽर्जुनः। अगराजो हिमवानिव जगत्याबभावित्येकोऽर्थः । अथैरावतसाम्यमुच्यते-जगतीं भुवं श्यन्ति तनूकुर्वन्तीति ते जगदीशा राक्षसास्तेषां रणस्तत्र युक्तो विहितः समर्थः । हरिकान्त इन्द्रप्रियः । उभयत्रापि समानमेतत् । सुधासितोऽमृतस्वच्छः । एकत्र शीलतः । अन्यत्र वर्णत इति विवेकः । दानवर्षी धनप्रदो मदस्रावी च। कृताशंस उभयत्र कृतजिगीषः। पार्थो नागराज इव ऐरावत इवाबभाविति द्वितीयोऽर्थः। अथ शेषौपम्यमुच्यते-जगतीशरणे भूरक्षणे युक्तो नियुक्तः। दैवेनेति शेषः ।
शरणं गृहरक्षित्रोः इत्यमरः (अमरकोशः ३.३.५९ ) । हरिकान्तः कृष्णप्रियः । उभयत्रापि तुल्यम् । सुष्ठु दधातीति सुधा । वसुधेति केचित् । एकदेशग्रहणात्समुदायग्रहणम्। तत्र सितो बद्धः। षिञ् बन्धने । क्तः। अन्यत्र सुधयामृतेन सितो बद्धः । अमृतप्रिय इत्यर्थः । दानवाश्च ऋषयश्च ईर्लक्ष्मीश्च तैः कृताशंसो विहितप्रशंसः। उभयत्रापि तुल्यमेतत् । सोऽर्जुनो नागराजः शेष इवाबभाविति तृतीयोऽर्थः ।
पदच्छेदः
AI
| जगतीशरणे | जगती–शरण (७.१) | in protecting the world |
| युक्तः | युक्त (√युज्+क्त, १.१) | engaged |
| हरिकान्तः | हरि–कान्त (१.१) | beloved of Hari (Indra) |
| सुधासितः | सुधा–सित (१.१) | white as nectar |
| दानवर्षीकृताशंसः | दान–वर्षी–कृत–आशंस (१.१) | he who had the desire to shower gifts |
| नागराजः | नाग–राजन् (१.१) | the king of elephants |
| इव | इव | like |
| अबभौ | अबभौ (√भा कर्तरि लिट् (परस्मै.) प्र.पु. एक.) | shone/appeared |
छन्दः
अनुष्टुप् [८]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ |
|---|---|---|---|---|---|---|---|
| ज | ग | ती | श | र | णे | यु | क्तो |
| ह | रि | का | न्तः | सु | धा | सि | तः |
| दा | न | व | र्षी | कृ | ता | शं | सो |
| ना | ग | रा | ज | इ | वा | ब | भौ |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.