चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः ।
चचार रुचिरश्चारु चारैराचारचञ्चुरः ॥

अन्वयः AI चार-चुञ्चुः चिर-अरेची चञ्चत्-चीर-रुचा रुचिरः आचार-चञ्चुरः (शिवः) चारैः रुचः चारु चचार ।
English Summary AI Famous for his graceful movements, resplendent for a long time, charming with the luster of his moving bark-garment, delightful, and renowned for his conduct, he (Shiva) moved about gracefully, displaying his splendors.
सारांश AI सुंदर गति और आचरण में निपुण अर्जुन अपनी चमकती वेशभूषा की कांति से शोभायमान होकर युद्धभूमि में अत्यंत तेजस्वी प्रतीत हुए।
घण्टापथव्याख्या (मल्लिनाथः) चारैरिति ॥ चारैर्गतिविशेषैर्वित्त इति चारचुञ्चु: । तेन वित्तश्चुञ्चुण्चणपौ इति चुञ्चुप्प्रत्ययः । चिरमारेचयति रिक्तीकरोति शत्रूनिति चिरारेची । चञ्चतश्चलतश्चीरस्य वल्कलस्य रुचा प्रभया। रोचत इति रुचः शोभमानः।इगुपध- (अष्टाध्यायी ३.१.१३५ ) इति कः। रुचिरः सुन्दरः। चञ्चूर्यते भृशं चरतीति चञ्चुरः। चरतेर्यङन्तात्पचाद्यच्। चरफलोश्च (अष्टाध्यायी ७.४.८७ ) इति नुमागमः । यङोऽचि च (अष्टाध्यायी २.४.७४ ) इति यङो लुक् । आचारस्य युद्धव्यवहारस्य चञ्चुरो भृशमाचरितः स मुनिश्चारु यथा तथा चारैश्चक्रादिबन्धैर्गतिविशेषैश्चचार । चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः इति विश्वः । द्व्यक्षरः ॥
पदच्छेदः AI
चारचुञ्चुःचारचुञ्चु (१.१) famous for graceful movement
चिरारेचीचिर–अरेचिन् (१.१) shining for a long time
चञ्चच्चीररुचाचञ्चत्चीररुच् (३.१) with the luster of the moving bark garment
रुचःरुच् (२.३) splendors
चचारचचार (√चर् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) moved about
रुचिरःरुचिर (१.१) charming
चारुचारु gracefully
चारैःचार (३.३) with movements
आचारचञ्चुरःआचारचञ्चुर (१.१) famous for his conduct
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
चा चु ञ्चु श्चि रा रे ची
ञ्च च्ची रु चा रु चः
चा रु चि श्चा रु
चा रै रा चा ञ्चु रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.