देवाकानिनि कावादे वाहिकास्वस्वकाहि वा ।
काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥

अन्वयः AI देवाकानिनि का-वादे वाहिका-सु अ-स्वका हि वा, काक-आर-इभ-भरे निस्व-भ-व्य-व्यभ-स्वनि (रणे) काकाः (आसन्) ।
English Summary AI This is a highly complex 'sarvatobhadra' verse, readable in all directions. One interpretation describes the battle: 'Delighting the gods, filled with harsh words, where rivers were no longer their own (but of blood), full of the cries of crows and elephants, and resounding with the noise of one's own splendid chariots, there were crows.'
सारांश AI देवताओं के समान तेजस्वी, कायरता रहित, अपनी सेना के रक्षक और हाथियों के समूह से युक्त उस युद्धक्षेत्र में शिवजी स्थित थे।
घण्टापथव्याख्या (मल्लिनाथः) देवेति ॥ पुनश्च । देवानाकनयत्युद्दीपयत्युत्साहयंतीति देवाकानी तस्मिन्देवाकानिनि। 'कन दीप्तौ' इति धातोर्ण्यन्ताण्णिनिः । कावाद ईषद्वादो वाक्कलहः। ईषदर्थे (अष्टाध्यायी ६.३.१०५ ) इति कुशब्दस्य कादेशः। तद्वति कावादे । अर्शआदिभ्योऽच् (अष्टाध्यायी ५.२.१२७ ) । वाहिका पर्यायेन रणभारोद्वहनम् । वहेः पर्याये धात्वर्थनिर्देशे ण्वुल्वक्तव्यः । वाहिकया क्रमप्राप्तरणक्रियया सुष्ठु शोभनं यथा तथास्वकान्परानाजिहीतेऽभियुङ्क्ते। योजयतीति यावत् । वाहिकास्वस्वकाहास्तस्मिन् । योद्धृधर्मो युद्ध उपचर्यते। 'ओहाङ् गतौ' इति धातोर्विच्प्रत्ययः। सोमपाशब्दवत्प्रक्रिया । वाशब्दश्चार्थे । कं मदोदकमाकिरन्तीति काकारा मदस्राविणः । किरतेराङ्पूर्वात्कर्मण्यण् । एवंविधा इभभरा गजघटा यत्र यस्मिन्काकारेभभरे । काका इव काका गर्ह्या इति लक्षणया तेषामामन्त्रणम्। निस्वा निरुत्साहा भव्याः सोत्साहास्तानुभयान्व्ययन्ति संवृण्वन्तीति निस्वभव्यव्याः।'व्येञ संवरणे'। 'आतोऽनुपसर्गे कः । तैर्बभस्ति भासत इति निस्वभव्यव्यभस्वांस्तस्मिन् । अन्येभ्योऽपि दृश्यते (अष्टाध्यायी ३.२.१७८ ) इति क्वनिप्। सर्वतो भ्रमणात्सर्वतोभद्राख्यश्चित्रबन्धः । यथाह दण्डी-'तदिदं सर्वतोभद्रं भ्रमणं यदि सर्वतः' इति । उद्धारस्तु-चतुष्कोष्ठे चतुरङ्गबन्धक्रमेणाद्यपङ्क्तिचतुष्टये पादचतुष्टयं विलिख्यानन्तरपङ्क्तिचतुष्टयेऽप्यधः क्रमेण पादचतुष्टयलेखने प्रथमासु चतसृषु पङ्क्तिषु प्रथमः पादः सर्वतो वाच्यते, द्वितीयादिषु द्वितीय इत्यादि ।
पदच्छेदः AI
देवाकानिनिदेव–आकानिन् (७.१) in that which is a delight to the gods
कावादेकावाद (७.१) in which there are evil words
वाहिकास्वस्वकाहिवाहिका (७.३)–अस्वका (१.३)हि in the rivers which were not their own indeed
वावा or
काकारेभभरेकाकआरइभभर (७.१) filled with the cries of crows and elephants
काकाकाक (१.३) crows
निस्वभव्यव्यभस्वनिनिस्वव्य–व्यभस्वनि (७.१) in which there is the sound of one's own brilliant, pervading chariots
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दे वा का नि नि का वा दे
वा हि का स्व स्व का हि वा
का का रे रे का का
नि स्व व्य व्य स्व नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.