तनुवारभसो भास्वानधीरोऽविनतोरसा ।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥

अन्वयः AI अविनत-उरसा भास्वान् तनु-वारभसः अधीरः चारुणा (सह) जन्ये रमते । रसित-अशिनि (सति) कः अभीतः (स्यात्)?
English Summary AI This verse is phonetically the reverse of the previous one. It means: 'With his chest unbent, radiant, with his armor's impetuosity, the impetuous one delights with his beautiful bow in battle. When the roaring thunderbolt is present, who can be fearless?'
सारांश AI कवच धारण किए हुए वह दीप्तिमान और उन्नत वक्ष वाला योद्धा युद्ध में सुशोभित है। रक्त पीने वाले इस भयंकर युद्ध में कौन निडर होकर आनंदित होता है?
घण्टापथव्याख्या (मल्लिनाथः) तन्विति ॥ तनुमावृणोत्याच्छादयतीति तनुवारं वर्म । कर्मण्यण् । तेन बभस्ति भासत इति तनुवारभसः । भस दीप्तौ । पचाद्यच् । भास्वांस्तेजस्वी चारुणा भास्वताविनतेनोन्नतेनोरसा वक्षःस्थलेनोपलक्षितः। एवंविधोऽप्यधीरो धैर्यरहितो रसितेन शब्दितेनैवाश्नाति ग्रसतीति रसिताशी तस्मिन् । रवेणैव विश्वप्राणहारिणीत्यर्थः। आभीक्ष्ण्ये णिनिः। जन्ये युद्धे । युद्धमायोधनं जन्यम् इत्यमरः (अमरकोशः २.८.१०३ ) । अभीतो निर्भीक: सन्को रमते कः क्रीडति । यदि रमते तर्ह्ययमेवेति भावः। निर्भयसंचारादेवास्य निश्चलत्वं निश्चीयत इत्यर्थः । पूर्वश्लोकस्यायं प्रतिलोमः ॥ अथ पञ्चभिः कुलकमाह-विभिन्नेत्यादिमिः ॥ विभिन्नपातिताश्वीयनिरुद्धरथवर्त्मनि । हतद्विपनगष्ठ्यूतरुधिराम्बुनदाकुले
पदच्छेदः AI
तनुवारभसोतनुव–आरभस (१.१) with the impetuosity of his armor
भास्वान्भास्वत् (१.१) radiant
अधीरःअधीर (१.१) impetuous
अविनतोरसाविनत (वि√नम्+क्त)उरस् (३.१) with an unbent chest
चारुणाचारु (३.१) with the beautiful (bow)
रमतेरमते (√रम् कर्तरि लट् (आत्मने.) प्र.पु. एक.) delights
जन्येजन्य (७.१) in battle
कःकिम् (१.१) who?
अभीतःभीत (१.१) fearless
रसिताशिनिरसित (√रस्+क्त)अशनि (७.१) when the roaring thunderbolt (is present)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नु वा सो भा स्वा
धी रो ऽवि तो सा
चा रु णा ते न्ये
को ऽभी तो सि ता शि नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.