Loading data... On slow networks this could take a few minutes.
100%

वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे ।
यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥

अन्वयः AI वेत्र-शाक-कुजे अलेश-ऐजे अ-कुक-शात्रवे शैले विदिशः जेतुम् किम् यात? तुञ्ज-ईशः दिवि (अस्ति), तया (चिन्तया) किम्?
English Summary AI On this mountain, which has cane and teak trees, is unshakable, and has no evil enemies, why do you go to conquer the quarters? The lord of giving (Indra) is in heaven; what is the use of that thought? This verse also contains a hidden meaning criticizing their ambition.
सारांश AI तुम इस पर्वत पर व्यर्थ ही दिशाओं में क्यों भाग रहे हो? क्या इस प्रकार के कायरतापूर्ण आचरण से स्वर्ग के स्वामी शिव को जीता जा सकता है?
घण्टापथव्याख्या (मल्लिनाथः) वेत्रेति ॥ वेत्राणि वंशाः फलिन्यो वा शाका बर्बराश्च कुजा वृक्षा यस्मिम्स्तस्मिन्वेत्रशाककुजे। शत्रुणा दुःप्रवेश्य इत्यर्थः । 'वेत्रं वंशफलिन्योश्च' इति विश्वः । शाकबर्बरवर्धका: इत्यमरः (अमरकोशः २.४.९० ) । लेशेन स्तोकेनाप्येजते कम्पत इति लेशैजः स न भवतीत्यलेशैजस्तस्मिन् । अत्यन्ताकम्पन इत्यर्थः । 'एजृ कम्पने' । पचाद्यच् । न कोकते नादत्त इत्यकुको ग्रहणासमर्थः शात्रवो यस्मिंस्तस्मिन्नकुकशात्रवे। 'कुक आदाने' । पचाद्यच् । शैले पर्वते । केषां भावः किंता कुत्सितता तयोपलक्षिताः सन्तः। 'कुत्साप्रश्नवितर्केषु क्षेपे किंशब्द इष्यते' इति शाश्वतः। विदिशो जेतुं यात गच्छत किम् । यातेः संप्रश्ने लोट् मध्यमपुरुषबहुवचनम् । दिवि स्वर्गेऽपि । तुञ्जेश इति तेषां संबोधनम् । तुञ्जन्त इति तुञ्जा हिंसका दैत्याः । 'तुजि हिंसायाम्॥ पचाद्यच्। तेभ्यो दैत्येभ्य ईशत इति तुञ्जेशः। ईशेः क्विप् । तेभ्योऽपि शक्ता इत्यर्थः । स्वर्गेऽप्यसुरविजयिनां युष्माकमत्र क्षुद्गस्थले क्षुद्रशत्रौ पलायनमनुचितमिति भावः। प्रतिलोमानुलोमपादः॥ नन्वनाथा वयं पलायामह इति तच्च न युक्तमित्याह
पदच्छेदः AI
वेत्रशाककुजेवेत्रशाककुज (७.१) on the (mountain) with cane and teak trees
शैलेशैल (७.१) on the mountain
अलेशैजेलेशएज् (७.१) unshakable
अकुकशात्रवेकुकशात्रव (७.१) having no evil enemies
यातयात (√या कर्तरि लोट् (परस्मै.) म.पु. बहु.) you go
किम्किम् why?
विदिशःविदिशा (२.३) the intermediate quarters
जेतुम्जेतुम् (√जि+तुमुन्) to conquer
तुञ्जेशःतुञ्जईश (१.१) the lord of giving (Indra)
दिविदिव् (७.१) in heaven
किंतयाकिम्तद् (३.१) what is the use of that (thought)?
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वे त्र शा कु जे शै ले
ऽले शै जे ऽकु शा त्र वे
या किं वि दि शो जे तुं
तु ञ्जे शो दि वि किं या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.