न नोननुन्नोऽनुन्नेनो न ना नानानना ननु ।
नुन्नोऽनुन्नो न नुन्नेनो नानेनानुन्ननुन्न नुत् ॥

अन्वयः AI (हे) नानानना! ननु ऊननुन्नः न ना (अस्ति) । अनुन्नेनः (अपि) न ना (अस्ति) । यः अनुन्नः (सन्) नुन्नः (भवति सः) नुन्नेनः न (भवति) । यः अनुन्ननुन्ननुत् (सः) अनेनाः न (भवति) ।
English Summary AI "O you of various faces! Indeed, a man struck by an inferior is no man. A man who is struck while himself unstruck is not a master of the struck. He who strikes both the unstruck and the struck is not without sin." (A complex verse on the ethics of combat).
सारांश AI वह पुरुष नहीं जो घायल नहीं हुआ, और वह भी वीर नहीं जो घायल को मारे। निष्पाप वीर घायल पर प्रहार नहीं करता और प्रहार करने वाला निष्पाप नहीं रहता।
घण्टापथव्याख्या (मल्लिनाथः) नेति ॥ पदच्छेदस्तावत्-न ना ऊननुन्नः नुन्नोनः ना अना नानाननाः ननु । नुन्नः अनुन्नः ननुन्नेनः ना अनेनाः नुन्ननुन्ननुत् ॥ अथ योजना—हे नानानना नानाप्रकाराण्याननानि येषां ते। नानाविधास्या इत्यर्थः । ऊनेन निकृष्टेन नुन्नो विद्ध ऊननुन्नो,य: स ना न पुरुषो न । तथा नुन्न ऊनो येन स नुन्नोनो ना पुरुषोऽना नन्वपुरुषः खलु । ऊनाद्भीत: पलायमानस्तु किं वक्तव्यमिति भावः। किं च । नुन्न इनः स्वामी यस्य स नुन्नेतः स न भवतीति ननुन्नेनः । नञर्थस्य नशब्दस्य सुप्सुपेति समासः। स नुन्नो वि द्धोऽप्यनुन्नोऽविद्ध एव । यूयमनुन्नस्वामिकत्वादनुन्ना एवेति भावः । तथा नुन्ननुन्ननुदतिशयेन नुन्ना नुन्ननुन्नास्तान्नुदतीति नुन्ननुन्ननुदतिपीडितपीडको ना पुरुषोऽनेना निर्दोषो न भवतीति। किंतु सदोष एवेति । नार्तं नातिपरिक्षतम्। इति निषेधादित्यर्थः। अयं तु नैतादृश इति न पलायितव्यमिति भावः । अयमेकव्यञ्जनः । अन्त्यस्तकारस्तु न दोषावहः । नान्त्यवर्णस्तु भेदकः इत्यभ्यनुज्ञानात् ॥
पदच्छेदः AI
not
नोननुन्नःन-ऊन-नुन्न (१.१) he who is not struck by an inferior
अनुन्नेनःअ-नुन्न-इन (१.१) not the master of the unstruck
not
नानृ (१.१) a man
नानाननानाना-नन (८.३) O you of various faces
ननुननु indeed
नुन्नःनुन्न (√नुद्+क्त, १.१) one who is struck
अनुन्नःअ-नुन्न (१.१) one who is not struck
not
नुन्नेनःनुन्न-इन (१.१) the master of the struck
नानेनान-अनेनस् (१.१) not without sin
अनुन्ननुन्ननुत्अनुन्न-नुन्न-नुद् (१.१) one who strikes the unstruck and the struck
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नो नु न्नो ऽनु न्ने नो
ना ना ना ना नु
नु न्नो ऽनु न्नो नु न्ने नो
ना ने ना नु न्न नु न्न नुत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.