नासुरोऽयं न वा नागो धरसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ॥

अन्वयः AI अयम् न असुरः, न वा नागः, न राक्षसः । (अयम्) धर-संस्थः । अयम् न असुखः, नव-आभोगः, धरणि-स्थः, हि राजसः (अस्ति) ।
English Summary AI "This person (I) is not an Asura, nor a Naga, nor a Rakshasa; I am merely stationed on this mountain. I am not unhappy; rather, I possess fresh prowess. I am an earth-dweller, and indeed, a man of the royal order."
सारांश AI सामने खड़ा यह शत्रु न असुर है, न नाग है और न ही कोई राक्षस; यह तो भूमि पर स्थित एक अत्यंत पराक्रमी और तेजस्वी मनुष्य है।
घण्टापथव्याख्या (मल्लिनाथः) नेति ॥ किं च अयमसुरो दैत्यो न । नागो गजो वा पन्नगश्च न । धर इव संस्था यस्य स धरसंस्थः पर्वताकारः। अहार्यधरपर्वताः इत्यमरः। संस्था व्यवस्थाप्रणिधिसमाप्त्याकारमृत्युषु इति वैजयन्ती । राक्षसो न । किं त्वयं सुखयतीति सुखः । सुखसाध्य इत्यर्थः । नवाभोगोऽभिनवप्रयत्नः। महोत्साह इत्यर्थः । आभोगो वरुणच्छत्रे पूर्णतायत्नयोरपि इति विश्वः । धरणिस्थो भूतलचारी राजसो रजोगुणप्रधानो ना पुरुषो हि । कश्चिन्मानुष इत्यर्थः । पुरुषाः पूरुषा नरः । मनुष्या मानुषा मर्त्या मनुजा मानवा नराः इत्यमरः (अमरकोशः २.६.१ ) । अतो न पलायनमुचितमिति भावः । गोमूत्रिकाबन्धः-वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः। गोभूत्रिकेति तत्प्राहुर्दुष्करं तद्विदो विदुः॥ इति लक्षणात् । षोडशकोष्ठद्वयेऽर्धद्वयं क्रमेण विलिख्यैकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥
पदच्छेदः AI
not
असुरःअसुर (१.१) an Asura
अयम्इदम् (१.१) this one
not
वावा or
नागःनाग (१.१) a Naga
धर-संस्थःधरसंस्थ (१.१) stationed on the mountain
not
राक्षसःराक्षस (१.१) a Rakshasa
not
असुखःअ-सुख (१.१) unhappy
अयम्इदम् (१.१) this one
नव-आभोगःनवआभोग (१.१) of new prowess
धरणि-स्थःधरणिस्थ (१.१) stationed on the earth
हिहि indeed
राजसःराजस (१.१) kingly
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना सु रो ऽयं वा ना गो
सं स्थो रा क्ष सः
ना सु खो ऽयं वा भो गो
णि स्थो हि रा सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.