Loading data... On slow networks this could take a few minutes.
100%

वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम् ।
वाणैर्बाणैः समासक्तं शङ्केऽशं केन शाम्यति ॥

अन्वयः AI वने अवने मार्गम् मार्गम् उपेयुषाम् वन-सदाम् (युष्माकम्) वाणैः बाणैः समासक्तम् अशम् केन शाम्यति इति शङ्के ।
English Summary AI "I wonder by what means this misfortune will be pacified for you forest-dwellers, who are seeking a path for protection in this forest, afflicted as you are by the sound of my bowstring and my arrows."
सारांश AI वनवासियों की रक्षा के मार्ग पर चलने वाले तुम योद्धाओं का अर्जुन के बाणों से उत्पन्न यह कष्ट अब भला किसके द्वारा शांत किया जा सकेगा?
घण्टापथव्याख्या (मल्लिनाथः) वन इति ॥ वनसदां वनेचराणामवने रक्षके वने मार्गं मृगसंबन्धिनं मार्गं पन्थानमुपेयुषाम् । पलायमानानामित्यर्थः । युष्माकमिति शेषः। बाणो ध्वनिरेषामस्तीति तैर्बाणैर्ध्वनियुक्तैः । वण संशब्दने इति धातोर्घञ् । ततो अर्शआदिभ्यः इत्यच्प्रत्ययः । यमकत्वाद्ववयोरभेदः । उक्तं च—रलयोर्डलयोस्तद्वज्जययोर्बवयोरपि । शसयोर्मनयोश्चान्ते सविसर्गाविसर्गयोः। सबिन्दुकाबिन्दुकयोः स्यादभेदेन कल्पनम् ॥ इति । बाणैः शरैः समासक्तं समासञ्जितमशं दुःखं तत्केन शाम्यतीति शङ्के । केनोपायेन शाम्येदिति विचारयामीत्यर्थः ।
पदच्छेदः AI
वनेवन (७.१) in the forest
अवनेअवन (७.१) for protection
वन-सदाम्वनसद् (६.३) of the forest-dwellers
मार्गम्मार्ग (२.१) path
मार्गम्मार्गम् (√मार्ग्+णमुल्) searching
उपेयुषाम्उपेयिवस् (उप√इ+क्वसु, ६.३) of those who have approached
वाणैःवाण (३.३) by sounds
बाणैःबाण (३.३) by arrows
समासक्तम्समासक्त (सम्+आ√सञ्ज्+क्त, १.१) afflicted
शङ्केशङ्के (√शङ्क् कर्तरि लट् (आत्मने.) उ.पु. एक.) I suspect
अशम्अश (१.१) misfortune
केनकिम् (३.१) by what means
शाम्यतिशाम्यति (√शम् कर्तरि लट् (परस्मै.) प्र.पु. एक.) will be pacified
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ने ऽव ने दां
मा र्गं मा र्ग मु पे यु षाम्
वा णै र्बा णैः मा क्तं
ङ्के ऽशं के शा म्य ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.