Loading data... On slow networks this could take a few minutes.
100%

अथ भूतानि वार्त्रघ्नशरेभ्यस्तत्र तत्रसुः ।
भेजे दिशः परित्यक्तमहेष्वासा च सा चमूः ॥

अन्वयः AI अथ तत्र भूतानि वार्त्रघ्न-शरेभ्यः तत्रसुः । परित्यक्त-महा-इष्वासा सा चमूः च दिशः भेजे ।
English Summary AI Then, the Ganas (Shiva's attendants) fled in fear from the arrows of Arjuna. And that army, its great archers having abandoned the fight, scattered in all directions.
सारांश AI अर्जुन के बाणों से भयभीत होकर वहाँ उपस्थित सभी प्राणी डर गए और वह सेना अपने श्रेष्ठ धनुर्धरों को छोड़कर दसों दिशाओं में भागने लगी।
घण्टापथव्याख्या (मल्लिनाथः) अथेति ॥ अथानन्तरं तत्र रणे भूतानि सर्वप्राणिनः । वृत्रं हतवानिति वृत्रहेन्द्रः । ब्रह्मभ्रूणवृत्रेषु क्विप् (अष्टाध्यायी ३.२.८७ ) । तस्यापत्यं पुमान्वार्त्रघ्नोऽर्जुनः।तस्यापत्यम् (अष्टाध्यायी ४.१.९२ ) इत्यण्प्रत्ययः। तस्य शरेभ्यस्तत्रसुर्बिभ्युः । 'वा जृभ्रमुत्रसाम्' इति विकल्पादेत्वाभ्यासलोपाभावः । सा चमूश्च । इषवोऽस्यन्त एभिरितीष्वासा धनूंषि । 'धनुश्चापोऽस्त्रमिष्वासः' इति हेमचन्द्रः। अकर्तरि च कारके संज्ञायाम् (अष्टाध्यायी ३.३.१९ ) इति करणे घञ् । परित्यक्ता महान्त इष्वासा यया सा। परित्यक्तायुधेत्यर्थः। दिशो भेजे । पलायांचक्र इत्यर्थः । अत्र भूतत्राससेनापलायनयोः समुञ्चयकथनाद्भिन्नविषयः क्रियासमुच्चयोऽलंकारः ।'गुणक्रियायौगपद्यं 'समुच्चयः' इति सामान्यलक्षणम् । तस्य यमकेन संसृष्टिः॥
पदच्छेदः AI
अथअथ Then
भूतानिभूत (१.३) the Ganas
वार्त्रघ्न-शरेभ्यःवार्त्रघ्नशर (५.३) from the arrows of the son of Vritra's slayer (Arjuna)
तत्रतत्र there
तत्रसुःतत्रसुः (√त्रस् कर्तरि लिट् (परस्मै.) प्र.पु. बहु.) fled in fear
भेजेभेजे (√भज् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) resorted to
दिशःदिश् (२.३) the directions
परित्यक्त-महा-इष्वासापरित्यक्तमहाइष्वास (१.१) she whose great archers had abandoned her
and
सातद् (१.१) that
चमूःचमू (१.१) army
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भू ता नि वा र्त्र घ्न
रे भ्य स्त त्र त्र सुः
भे जे दि शः रि त्य क्त
हे ष्वा सा सा मूः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.