ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः
शिलोच्चये तस्य विमार्गणं नयः ।
न युक्तमत्रार्यजनातिलङ्घनं
दिशत्यपायं हि सतामतिक्रमः ॥

अन्वयः AI तस्य शिलोच्चये प्रहितस्य पत्त्रिणः प्रणाशः ध्रुवम्, (तस्य) विमार्गणम् नयः (अस्ति) । अत्र आर्यजन-अतिलङ्घनम् न युक्तम् । हि सताम् अतिक्रमणः अपायम् दिशति ।
English Summary AI "The loss of the arrow shot into that mountain is certain; searching for it is the right policy. Transgressing against a noble person here is not proper, for disrespecting the virtuous indeed leads to misfortune."
सारांश AI पर्वत पर चलाए गए बाण का नष्ट होना निश्चित है, उसे ढूँढना ही नीति है। यहाँ सज्जनों की मर्यादा का उल्लंघन उचित नहीं, क्योंकि महापुरुषों का तिरस्कार केवल विनाश लाता है।
घण्टापथव्याख्या (मल्लिनाथः) ध्रुवमिति ॥ प्रहितस्य प्रयुक्तस्य पत्रिणः शरस्य प्रणाशोऽदर्शनं ध्रुवं निश्चितम् । प्रहितश्चेदिति भावः। तस्य नष्टस्य पत्रिणः शिलोच्चये शैले। अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः इत्यमरः (अमरकोशः २.३.१ ) । विमार्गणमन्वेषणं नयो न्याय्यः । अन्वेषणं विचयनं मार्गणं मृगणा मृगः इत्यमरः । अत्र विषये आर्यजनातिलङ्घनं सज्जनव्यतिक्रमो न युक्तम् । हि यस्मात्कारणात्सतामतिक्रमोऽपायमनर्थं दिशति ददाति ॥ यदुक्तम् हर्तुमर्हसि इति तत्रोत्तरमाह
पदच्छेदः AI
ध्रुवम्ध्रुवम् certain
प्रणाशःनाश (प्र√नाश, १.१) the loss
प्रहितस्यप्रहित (प्र√हि+क्त, ६.१) of the shot
पत्त्रिणःपत्त्रिन् (६.१) arrow
शिलोच्चयेशिलाउच्चय (७.१) in the mountain
तस्यतद् (६.१) its
विमार्गणम्मार्गण (वि√मार्गण, १.१) searching
नयःनय (१.१) is the right policy
not
युक्तम्युक्त (√युज्+क्त, १.१) proper
अत्रअत्र here
आर्यजनातिलङ्घनम्आर्यजनअतिलङ्घन (१.१) transgressing against a noble person
दिशतिदिशति (√दिश् कर्तरि लट् (परस्मै.) प्र.पु. एक.) leads to
अपायम्अपाय (२.१) misfortune
हिहि for
सताम्सत् (√अस्+शतृ, ६.३) of the virtuous
अतिक्रमणःक्रमण (अति√क्रमण, १.१) disrespect
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
ध्रु वं प्र णा शः प्र हि स्य त्त्रि णः
शि लो च्च ये स्य वि मा र्ग णं यः
यु क्त त्रा र्य ना ति ङ्घ नं
दि त्य पा यं हि ता ति क्र मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.