हृता गुणैरस्य भयेन वा मुने-
स्तिरोहिताः स्वित्प्रहरन्ति देवताः ।
कथं न्वमी संततमस्य सायका
भवन्त्यनेके जलधेरिवोर्मयः ॥

अन्वयः AI अस्य मुनेः गुणैः हृताः वा भयेन तिरोहिताः देवताः स्वित् प्रहरन्ति? कथम् नु अस्य अमी अनेके सायकाः जलधेः ऊर्मयः इव संततम् भवन्ति?
English Summary AI The soldiers continued to speculate: "Are hidden deities, won over by this sage's virtues or acting out of fear, striking us? How else could his many arrows be continuous, like the waves of the ocean?"
सारांश AI क्या देवता अर्जुन के गुणों से आकर्षित होकर या भय के कारण अदृश्य रूप से प्रहार कर रहे हैं? इनके बाण समुद्र की लहरों की भाँति निरंतर और असंख्य कैसे हो रहे हैं?
घण्टापथव्याख्या (मल्लिनाथः) हृता इति ॥ यद्वा । अस्य मुनेर्गुणैः शान्त्यादिभिर्हृता आकृष्टाः । वशीकृता इति यावत् । भयेन दरेण चा। भयाद्विभ्यत्य एवेत्यर्थः । देवतास्तिरोहिताः सत्यः प्रहरन्ति स्वित् । तत्कुतः । अन्यथा अस्य मुनेरमी सायका जलधेरूर्मय इव कथं नु संततमनेकेऽसंख्या भवन्ति । एतच्चोक्तान्यतम पक्षासंभवे न संभवतीत्यर्थः ॥
पदच्छेदः AI
हृताःहृत (√हृ+क्त, १.३) won over
गुणैःगुण (३.३) by virtues
अस्यइदम् (६.१) his
भयेनभय (३.१) by fear
वावा or
मुनेःमुनि (६.१) of the sage
तिरोहिताःतिरोहित (तिरस्√धा+क्त, १.३) hidden
स्वित्स्वित् perhaps?
प्रहरन्तिप्रहरन्ति (प्र√हृ कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are striking
देवताःदेवता (१.३) the deities
कथम्कथम् how
नुनु indeed
अमीअदस् (१.३) these
संततम्संतत (२.१) continuously
अस्यइदम् (६.१) his
सायकाःसायक (१.३) arrows
भवन्तिभवन्ति (√भू कर्तरि लट् (परस्मै.) प्र.पु. बहु.) are
अनेकेअनेक (१.३) many
जलधेःजलधि (६.१) of the ocean
इवइव like
ऊर्मयःऊर्मि (१.३) waves
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
हृ ता गु णै स्य ये वा मु ने
स्ति रो हि ताः स्वि त्प्र न्ति दे ताः
थं न्व मी सं स्य सा का
न्त्य ने के धे रि वो र्म यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.