समस्य सम्पादयता गुणैरिमां
त्वया समारोपितभार भारतीम् ।
प्रगल्भमात्मा धुरि धुर्य वाग्मिनां
वनचरेणापि सताधिरोपितः ॥

अन्वयः AI धुर्य, गुणैः समस्य इमाम् भारतीम् सम्पादयता, वनचरेण अपि सता त्वया वाग्मिनाम् धुरि आत्मा प्रगल्भम् समारोपितभारः अधिरोपितः ।
English Summary AI "O foremost one! By composing this speech, which is laden with the weight of meaning, by combining various merits, you, though a mere forest-dweller, have boldly placed yourself at the forefront of the most eloquent speakers."
सारांश AI हे वनवासी! गुणों से युक्त इस प्रभावशाली वाणी का प्रयोग कर तुमने स्वयं को वक्ताओं में श्रेष्ठ सिद्ध किया है और मुझ पर भी उत्तर देने का भार डाल दिया है।
घण्टापथव्याख्या (मल्लिनाथः) समस्येति ॥ धुरं वहतीति धुर्यस्तत्संबोधने हे धुर्य हे कार्यनिर्वाहक । इति यत्प्रत्ययः । अत एव समारोपितभार स्वामिना निहितसंध्यादिकार्यभार हे। तदाह मनुः–दूते संधिविपर्ययौ इति । इमां शान्तताविनययोगीत्यादिकां भारतीं वाचं गुणैर्विविक्तवर्णत्वादिभिः समस्य संयोज्य प्रगल्भं निर्भीकं यथा तथा संपादयता रचयता । व्याहरतेत्यर्थः । त्वया वनेचरेणापीत्यर्थः । सता । अपिशब्दो-विरोधद्योतनार्थम् । आत्मा स्वयं वाग्मिनां वाचोयुक्तिपटूनाम्।वाचौयुक्तिपटुर्वाग्मी इत्यमरः । वाचो ग्मिनिः (अष्टाध्यायी ५.२.१२४ ) इति मत्वर्थीयो ग्मिनिप्रत्ययः । धुर्यग्नेऽधिरोपितः । स्थापित इत्यर्थः । रुहः पोऽन्यतरस्याम् (अष्टाध्यायी ७.३.४३ ) इति पकारः । अत्र मनु:-वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञ: प्रशस्यते इति ॥ वाग्मितामेवाह
पदच्छेदः AI
समस्यसमस्य (सम्√अस्+ल्यप्) by combining
सम्पादयतासम्पादयत् (सम्√पद्+णिच्+शतृ, ३.१) by the one who accomplishes
गुणैःगुण (३.३) with merits
इमाम्इदम् (२.१) this
त्वयायुष्मद् (३.१) by you
समारोपितभारसमारोपित (सम्+आ√रुह्+णिच्+क्त)भार (१.१) on whom the burden is placed
भारतीम्भारती (२.१) speech
प्रगल्भम्प्रगल्भम् boldly
आत्माआत्मन् (१.१) self
धुरिधुर् (७.१) at the forefront
धुर्यधुर्य (८.१) O foremost one
वाग्मिनाम्वाग्मिन् (६.३) of the eloquent
वनचरेणवनचर (३.१) by a forest-dweller
अपिअपि even
सतासत् (√अस्+शतृ, ३.१) being
अधिरोपितःअधिरोपित (अधि√रुह्+णिच्+क्त, १.१) is placed
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
स्य म्पा ता गु णै रि मां
त्व या मा रो पि भा भा तीम्
प्र ल्भ मा त्मा धु रि धु र्य वा ग्मि नां
रे णा पि ता धि रो पि तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.