द्विषां क्षतीर्याः प्रथमे शिलामुखा
विभिद्य देहावरणानि चक्रिरे ।
न तासु पेते विशिखैः पुनर्मुने-
ररुंतुदत्वं महतां ह्यगोचरः ॥

अन्वयः AI याः प्रथमे शिलामुखाः द्विषाम् देह-आवरणानि विभिद्य क्षतीः चक्रिरे, तासु मुनेः विशिखैः पुनः न पेते । हि महताम् अरुंतुदत्वम् अगोचरः ।
English Summary AI The arrows that first pierced the enemies' armor and created wounds did not fall again into those same wounds from the sage's (Arjuna's) subsequent shots. Indeed, the act of striking an already wounded spot is beyond the practice of the great-souled.
सारांश AI अर्जुन के बाणों ने शत्रुओं के शरीर पर उन्हीं स्थानों पर प्रहार नहीं किया जहाँ पहले से घाव थे; महान पुरुष दुःखियों को और अधिक कष्ट नहीं देते।
घण्टापथव्याख्या (मल्लिनाथः) द्विषामिति ॥ प्रथमे । प्रथममुक्ता इत्यर्थः । शिलीमुखा मुनिशरा द्विषां देहावरणानि वर्माणि विभिद्य याः क्षतीः प्रहारांश्चक्रिरे । तासु क्षतिषु पुनः पश्चात्प्रयुक्तैर्मुनेर्विशिखैर्न पेते न पतितम् । पिष्टपेषणदोषापातादिति भावः । तथा हि । अरुंतुदत्वं पीडितपीडनं सतामगोचरोऽविषयं हि । सन्तः पीडितपीडां न कुर्वन्तीत्यर्थः । न हन्याद्व्यसनप्राप्तं नार्तं नातिपरिक्षतम् इति निषेधस्मरणादिति भावः। अरुर्व्रणं तुदतीति अरुंतुदः।व्रणोऽस्त्रियामीर्ममरुः इत्यमरः (अमरकोशः २.६.५४ ) विध्वरुषोस्तुदः (अष्टाध्यायी ३.२.३५ ) इति खश्प्रत्ययः । अरुर्द्विषदजन्तस्य मुम् (अष्टाध्यायी ६.३.६७ ) इति मुमागमः ॥
पदच्छेदः AI
द्विषाम्द्विष् (६.३) of the enemies
क्षतीःक्षति (२.३) wounds
याःयद् (१.३) which
प्रथमेप्रथम (७.१) at first
शिलामुखाःशिलामुख (१.३) arrows
विभिद्यविभिद्य (वि√भिद्+ल्यप्) having pierced
देह-आवरणानिदेहआवरण (२.३) body armors
चक्रिरेचक्रिरे (√कृ कर्तरि लिट् (आत्मने.) प्र.पु. बहु.) made
not
तासुतद् (७.३) in them
पेतेपेते (√पत् कर्तरि लिट् (आत्मने.) प्र.पु. बहु.) fell
विशिखैःविशिख (३.३) arrows
पुनःपुनर् again
मुनेःमुनि (६.१) of the sage
अरुंतुदत्वम्अरुस्तुद्–अरुंतुदत्व (१.१) the act of striking a sore spot
महताम्महत् (६.३) of the great
हिहि for
अगोचरःअगोचर (१.१) is beyond the scope
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
द्वि षां क्ष ती र्याः प्र मे शि ला मु खा
वि भि द्य दे हा णा नि क्रि रे
ता सु पे ते वि शि खैः पु र्मु ने
रुं तु त्वं तां ह्य गो रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.