ततः प्रजह्रे सममेव तत्र
तैरपेक्षितान्योन्यबलोपपत्तिभ्-
इः महोदयानामपि संघवृत्तित्-
आं सहायसाध्याः प्रदिशन्ति सिद्धय्-
अः

अन्वयः AI ततः तत्र अपेक्षितअन्योन्यबलोपपत्तिभिः तैः समम् एव प्रजह्रे। सहायसाध्याः सिद्धयः महोदयानाम् अपि संघवृत्तितां प्रदिशन्ति।
English Summary AI Then, he (Arjuna) was attacked there simultaneously by them (the Kiratas), who now relied on their combined strength. Indeed, successes that require assistance compel even the most powerful individuals to act as a group.
सारांश AI इसके बाद वे गण एक-दूसरे के बल की सहायता लेते हुए साथ मिलकर अर्जुन पर टूट पड़े; महान कार्यों में सफलता अक्सर समूह के सहयोग से ही सिद्ध होती है।
घण्टापथव्याख्या (मल्लिनाथः) तत इति ॥ तत एकैकस्याशक्तावपेक्षिता वाञ्छितान्योन्यबलोपपत्तिरन्योन्यशक्त्यवष्टम्भो यैस्तैः प्रमथैस्तत्रार्जुने । क्रियाधारत्वात्सप्तमी । समं युगपदेव प्रजह्रे प्रहृतम्। भावे लिट् । तथा हि । सहायसाध्याः सिद्धयः कार्यसिद्धयो महोदयानां महानुभावानामपि संघेन वृत्तिर्व्यापारो येषां तेषां भावस्तत्ता तां संघवृत्तितां संभूयकारितां प्रदिशन्ति । अतो गणानामपि संभूयकारित्वं न दोष इति भावः ॥
पदच्छेदः AI
ततःततः Then
प्रजह्रेप्रजह्रे (प्र√हृ भावकर्मणोः लिट् (आत्मने.) प्र.पु. एक.) was attacked
समम्समम् simultaneously
एवएव indeed
तत्रतत्र there
तैःतद् (३.३) by them
अपेक्षितान्योन्यबलोपपत्तिभिःअपेक्षित (अप√ईक्ष्+क्त)अन्योन्यबलउपपत्ति (३.३) by those who relied on their combined strength
महोदयानाम्महोदय (६.३) of the very powerful
अपिअपि even
संघवृत्तिताम्संघवृत्तिता (२.१) the state of acting as a group
सहायसाध्याःसहायसाध्य (१.३) achievable with assistance
प्रदिशन्तिप्रदिशन्ति (प्र√दिश् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) bestow
सिद्धयःसिद्धि (१.३) Successes
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
तः प्र ह्रे मे त्र तै
पे क्षि ता न्यो न्य लो त्ति भिः
हो या ना पि सं वृ त्ति तां
हा सा ध्याः प्र दि न्ति सि द्ध यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.