Loading data... On slow networks this could take a few minutes.
100%

भवन्ति ते सभ्यतमा विपश्चितां
मनोगतं वाचि निवेशयन्ति ये ।
नयन्ति तेष्वप्युपपन्ननैपुणा
गम्भीरमर्थं कतिचित्प्रकाशताम् ॥

अन्वयः AI ये विपश्चिताम् मनः-गतम् वाचि निवेशयन्ति, ते सभ्य-तमाः भवन्ति । तेषु अपि उपपन्न-नैपुणाः कतिचित् (एव) गम्भीरम् अर्थम् प्रकाशताम् नयन्ति ।
English Summary AI Those who can express in speech what is in the minds of the wise are most eloquent. Even among them, only a few, endowed with exceptional skill, can bring a profound meaning to clarity.
सारांश AI जो विद्वान अपने मन के भावों को वाणी में व्यक्त करते हैं, वे सभा में श्रेष्ठ माने जाते हैं, परंतु उनमें भी कुछ ही कुशल लोग गम्भीर अर्थ को स्पष्टता से प्रकट कर पाते हैं।
घण्टापथव्याख्या (मल्लिनाथः) भवन्तीति । ते पुरुषा विपश्चितां विदुषाम् । विद्वान्विपश्चिदोषज्ञःइत्यमरः (अमरकोशः २.७.५ ) । मध्ये सभ्यतमा सभायां साधुतमा निपुणतमाः। साधुः समर्थो निपुणश्च इति काशिकायाम् । भवन्ति। ये मनोगतं मनसा गृहीतमर्थं वाचि निवेशयन्ति । वाचोद्भिरन्तीत्यर्थः । तेषु वक्तृष्वप्युपपन्ननैपुणाः संभावितकौशलाः कतिचिदेव गभीरं निगूढमर्थं प्रकाशतां स्फुटतमं नयन्ति । लोके तावज्ज्ञातार एव दुर्लभाः । तत्रापि वक्तारः। तप्रापि निगूढार्थप्रकाशकाः । त्वयि सर्वमस्तीति स्तुतिः । वनेचरवाक्यरहस्यं ज्ञातमिति स्वयमपि तादृश एवेति हृदयम् ॥
पदच्छेदः AI
भवन्तिभवन्ति (√भू कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they are
तेतद् (१.३) they
सभ्यतमाःसभ्यतम (१.३) most eloquent
विपश्चिताम्विपश्चित् (६.३) of the wise
मनोगतम्मनस्गत (२.१) what is in the mind
वाचिवाच् (७.१) in speech
निवेशयन्तिनिवेशयन्ति (नि√विश् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they express
येयद् (१.३) who
नयन्तिनयन्ति (√नी कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they bring
तेषुतद् (७.३) among them
अपिअपि even
उपपन्ननैपुणाःउपपन्ननैपुण (१.३) those endowed with skill
गम्भीरम्गम्भीर (२.१) profound
अर्थम्अर्थ (२.१) meaning
कतिचित्कतिचित् (१.३) a few
प्रकाशताम्प्रकाशता (२.१) to clarity
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
न्ति ते भ्य मा वि श्चि तां
नो तं वा चि नि वे न्ति ये
न्ति ते ष्व प्यु न्न नै पु णा
म्भी र्थं ति चि त्प्र का ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.