Loading data... On slow networks this could take a few minutes.
100%

विविक्तवर्णाभरणा सुखश्रुतिः
प्रसादयन्ती हृदयान्यपि द्विषाम् ।
प्रवर्तते नाकृतपुण्यकर्मणां
प्रसन्नगम्भीरपदा सरस्वती ॥

अन्वयः AI विविक्त-वर्ण-आभरणा, सुख-श्रुतिः, द्विषाम् अपि हृदयानि प्रसादयन्ती, प्रसन्न-गम्भीर-पदा सरस्वती अकृत-पुण्य-कर्मणाम् न प्रवर्तते ।
English Summary AI Eloquent speech—adorned with distinct syllables, pleasant to hear, delighting the hearts of even enemies, and composed of clear yet profound words—does not flow from those who have not performed meritorious deeds.
सारांश AI स्पष्ट वर्णों वाली, सुनने में सुखद और शत्रुओं के हृदय को भी प्रसन्न करने वाली ऐसी गम्भीर एवं निर्मल वाणी बिना पूर्व के पुण्य कर्मों के सिद्ध नहीं होती।
घण्टापथव्याख्या (मल्लिनाथः) विविक्तेति ॥ विविक्ताः संयोगादिनाश्लिष्टाः स्फुटोच्चारिता वर्णा अक्षराण्येवाभरणानि यस्याः सा । अन्यत्र तु विविक्तानि शुद्धानि वर्णो रूपमाभरणानि च यस्याः सा। वर्णों द्विजादौ शुक्लादौ स्तुतौ वर्ण तु चाक्षरे इत्युभयत्राप्यमरः। सुखा श्रुतिः श्रवणं यस्याः सा सुखश्रुतिः । श्राव्येत्यर्थः । अन्यत्र श्रूयत इति श्रुतिर्वाक् । सा सुखा यस्याः सा । मञ्जुभाषिणीत्यर्थः । द्विषामपि हृदयानि प्रसादयन्ती । किं पुनः सुहृदामिति भावः । प्रसन्नानि वाचकानि गम्भीराण्यर्थगुरूणि च पदानि सुप्तिङन्तरूपाणि यस्याः सा । अन्यत्र तु प्रसन्ना विमला गम्भीरपदालसचरणा सरस्वती वाक् । स्त्रीरत्नं च । तथा चोक्तम्—सरस्वतीसरिद्भेदे गोवाग्देवतयोरपि । स्त्रीरत्ने च इति । न कृतं पुण्यकर्म यैस्तेषां न प्रवर्तते न प्रसरति । किं तु सुकृतिनामेवेत्यर्थः । भवद्वाणी चैवंविधेति धन्यो भवानिति भावः । अत्र काचिन्नायिका वाग्देवता च प्रतीयते । तत्रादौ समासोक्तिरलंकारः। विशेषणमात्रसाम्येनाप्रस्तुतप्रतीतेः । अत एव न श्लेषः ॥
पदच्छेदः AI
विविक्तवर्णाभरणाविविक्तवर्णआभरण (१.१) whose ornament is distinct syllables
सुखश्रुतिःसुखश्रुति (१.१) pleasant to hear
प्रसादयन्तीप्रसादयन्ती (प्र√सद्+णिच्+शतृ, १.१) pleasing
हृदयानिहृदय (२.३) the hearts
अपिअपि even
द्विषाम्द्विष् (६.३) of enemies
प्रवर्ततेप्रवर्तते (प्र√वृत् कर्तरि लट् (आत्मने.) प्र.पु. एक.) flows
not
अकृतपुण्यकर्मणाम्अकृतपुण्यकर्मन् (६.३) of those who have not performed meritorious deeds
प्रसन्नगम्भीरपदाप्रसन्नगम्भीरपद (१.१) whose words are clear and profound
सरस्वतीसरस्वती (१.१) speech
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि वि क्त र्णा णा सु श्रु तिः
प्र सा न्ती हृ या न्य पि द्वि षाम्
प्र र्त ते ना कृ पु ण्य र्म णां
प्र न्न म्भी दा स्व ती
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.